SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - षष्ठ उक्तिप्रक्रमः । ४३ कीज दीजह लीज इत्यादी वक्रोक्तौ कर्मणि वर्त्तमानाया आत्मनेपदम् । करिजे जे जे इत्यादी एकारान्तवचने सप्तमी । करि इ इ इत्यादी अनुमति पञ्चमी । विशेषः समर्थनाशिषोश्च । परैरशक्यस्य वस्तुनोऽध्यवसायः समर्थना । अहं पर्वतमुत्पादयामि । समुद्रमपि शोषयामि । इति । इष्टार्थस्याशंसनमाशीः । जीवतु भवान् । नन्दतु भवान् । क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं पञ्चम्याः । क्रियासमभिहारः पौनः पुण्यं (न्यं) भृशार्थी वा ॥ यथा माघमहाकाव्ये यो रावणः - पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । अत्रात काले हि । कीजउ दीजउ लीजउ इत्यादौ कर्मण्यात्मनेपदं पञ्चम्याः । की उं दीघउं लीधरं इत्यादौ परोक्षा ह्यस्तन्यद्यतन्यौ च । कालि की उं इत्यादी ह्यस्तन्येव । न परोक्षाद्यतन्यौ । आजु की उं इत्यादौ अद्यतनी । न परोक्षाह्यस्तन्यौ । म करि म लइ म दइ; म करिसि म लेसि म देसि इत्यादी माशब्दयोगेऽयतनी । मा स्म योगे ह्यस्तनी च । चकारादद्यतन्यपि । माङ् योगे तु यथा प्राप्ते पञ्चमी भविष्यन्ती च । मकीधु म लघु दीधु इत्यादी कर्मणि माशब्दयोगे अद्यतन्याः, मास्मयोगे ह्यस्तन्यद्यतन्योः । माङ्योगे तु पञ्चम्या आत्मनेपदम् । जइ करत जइ लेत जइ देत इत्यादी क्रियातिपत्तिः । जड़ कीजत लीजत दीजत इत्यादी कर्म्मणि क्रियातिपत्तिरात्मनेपदम् । करिसिइ लेसि देसिइ इत्यादी, नहीं करइ नहीं लियइ नहीं दियइ इत्यादौ च भविष्यन्ती । कीजिसिइ लीजिसिइ दीजिसिह इत्यादी, नहीं कीजइ नहीं लीजइ नहीं दीजइ इत्यादी च कर्म्मणि भविष्यन्त्यात्मनेपदम् । कालि रिसइ इत्यादौ श्वस्तनी । शत्रुजिसि वर्ष शत्रु जीविसह इत्यादी आशीर्युक्ते भविष्यति काले आशीः । अथ कृत्प्रत्ययप्राप्तिमाह- करतउ लेतर देत इत्यादी कर्त्तरि वर्त्तमाने शन्तुङ - आनशौ । परस्मैपदिनि शन्तृङ् । आत्मनेपदिनि आनशू । उभपदनिद्वावपि । कीजतउ लीजतउ दीजतउ इत्यादी कर्मण्यानशू । करणाहरु णाहरु देणाहरु इत्यादौ वर्त्तमाने वुण - तृचौ । कीधउं दीघउं लीधउं इत्यादौ अतीते निष्ठा कन्सु - कानौ च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy