SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा-षष्ठ उक्तिप्रक्रमः। प्रथममध्यमोत्तमास्त्रयः पुरुषाः । सर्वोऽपि प्रथमः । त्वं युवां यूयं इति मध्यमः। अहं आवां वयं इत्युत्तमः। स पचति, तौ पचतः, ते पचन्ति। त्वं पचसि, युवां पचथः, यूयं पचथ। अहं पचामि, आवां पचावः, वयं पचामः। एवमात्मनेपदेऽपि सर्वत्र यत्रैकत्र द्वौ त्रयो वा पुरुषाः स्युः तत्र परोक्तो ग्राह्यः । युगपद्धचने परः पुरुषाणामिति वचनात् । सङ्ख्या तु सर्वेषामपि ग्राह्याः । स च त्वं च पचथः । त्वं चाहं च पचावः। त्वमहं च पचामः। वर्तमान-अतीत-भविष्यन्नामानस्त्रयः कालाः। वर्तमाना, सप्तमी, पञ्चमी, ह्यस्तनी, अद्यतनी, परोक्षा, स्वस्तनी, आशीः, भविष्यन्ती, क्रियातिपत्तिः । एतास्त्यादयो विभक्तयः। वर्तमाने वर्तमाना-सप्तमी-पञ्चम्यः। अतीते ह्यस्तनी अद्यतनी परोक्षा क्रियातिपत्तिः। भविष्यति भविष्यन्ती-आशी:-श्वस्तन्यः। एवमेतास्त्रिषु कालेषु प्रायेण स्युः। . एकैकस्यामष्टादश वचनानि भवन्ति । पूर्वाणि न[व] वचनानि परस्मैपदसज्ञानि । पराण्यात्मनेपदसञ्ज्ञानि । परस्मैपदेष्वात्मनेपदेषु च सर्वेषु त्रीणि २ वचनानि प्रथममध्यमोत्तमसज्ञानि भवन्ति । एकद्वि-बह्वर्थः पुरुषः। ति एकवचनम्], तस् द्विवचनम्], अन्ति बहुवचन[म्]। एवं सर्वत्र त्रिकेषु ज्ञेयम् । ति तस् अन्ति प्रथमपुरुषः । सि थस् थ मध्यमपुरुषः । मि वस् मसू इति उत्तमपुरुषः। एवं आत्मनेपदेऽपि । एवं सर्वत्र । आत्मने त्रिषु विज्ञेयं भावे कर्तरि कर्मणि । परस्मै कतरि भवेद् न भावे न च कर्मणि ॥ इति कर्तरि परस्मैपदं आत्मनेपदं च । परस्मैपदिनि धातौ परस्मैपदम् । आत्मनेपदिनि आत्मनेपदम् । उभयपदिन्युभयपदम् । यथा-शिष्यः शास्त्रं पठति, अधीते च । चैत्रः कटं करोति, कुरुते च। एवं त्रिविधो धातुः। भावकर्मणोः पुनरात्मनेपदमेव । अथ प्रत्येकं विभक्तिप्राप्तिमाह - करइ लियइ दियइ इत्यादी वर्तमाना। वि० स्मेनातीते। दहति स्म त्रिपुरं हरः। भविष्यत्काले यावत् . पुरानिपातयोलट् वर्तमाना इत्यर्थः। यावद् भुते ततो व्रजति । अधीष्व माणवक पुरा विद्योतते विद्युत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy