________________
बालशिक्षा-षष्ठ उक्तिप्रक्रमः । 'नीवहादेः प्रधानकम्' इति ।
नी-वयोहरतेश्चापि गत्यर्थानां तथैव च ।
द्विकर्मकेषु ग्रहणं ण्यन्ते कर्तुश्च कर्मणः॥ - नीयते भारो ग्रामं चैत्रेण, उह्यते भारो ग्रामं मैत्रेण, हियते भोक्तुं ग्रामं जैत्रेण, अजाग्राममाकृष्यते जनेन । अत्र भारादेर्नीयमानस्य प्रधानस्वादुक्तत्वम् ।
'इनन्ते कर्तृकमैव'इत्यादि । इनन्ते यः कर्ता स कर्म स्यात् । तत् कर्म उक्तम् । एतच गौणम् । 'अन्यद्' द्वितीयं मुख्यं वा । यथा-ग्राम गम्यते चैत्रो मेत्रेण, ग्रामश्चैत्रं वा । एवं सर्वत्र।
अथ भावे । यत्र को अनुक्तः स्यात् कर्म च न लक्ष्यते, सा भावे उक्तिः । येषां धातूनां कर्म नास्ति ते अकर्मकाः । यथा
लज्जा सत्ता स्थिति जागरणं वृद्धि क्षय भय जीवित मरणम् ।
शयन क्रीडा रुचि दीप्त्यर्था धातव एते कर्मवियुक्ताः ॥ १ ॥ तेन लज्यते, त्वया भूयते, मया स्थीयते इत्यादि क्रियाया आत्मनेपदस्य प्रथमैकवचनमेव । तथा
प्र पराप समन्वव निर्दुरभि व्यधि सूदति नि प्रति पर्यपयः ।
उप आङिति विंशतिरेष सखे उपसर्गगणः कथितः कविना ॥१॥ सोपसर्गा इनन्ताश्च अकर्मका अपि धातवः सकर्मका जायन्ते। यथा-दक्षेणोपास्यते धर्मः। राज्ये पुत्रः संस्थाप्यते नृपेण ।।
तथा च कालाध्वभावदेशानां कर्मसंज्ञा सिद्धैव । यथा-मासमास्ते राशौ रविः । कर्मणि मास आस्यते। क्रोशो गुडधानाभिभूयते । ओदनपाकः शय्यते । नदी सुप्यते । एवमकर्मकेष्वपि कर्मण्युक्तिः । __तथा देवदत्तेन ग्रामे गम्यते- इत्यादौ सकर्मकेष्वपि यदि कर्म न विवक्ष्यते तदा भावे उक्तिः । विवक्षाधीनं हि कर्म । यथा-मेघो वर्षति। पार्थः शरान् वर्षति । इत्यादि। .. अथ कर्मकर्तरि ।
क्रियमाणं तु यत् कर्म स्वयमेव प्रसिध्यति । . सुकरैः खैर्गुणैः कर्तुः कर्मकर्तेति तद्विदुः॥१॥
कर्म चासौ कर्ता च कर्मकर्ता । स च कर्मवत् । लूयते केदारः स्वयमेव । भिद्यते कुशूलः खयमेव । अथ क्रिया।
क्रियाप्रधानमाख्यातं लिङ्गं गृह्णाति न कचित्। उक्तस्य संख्यामादत्ते पुरुषं तस्य च क्रिया ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org