________________
बालशिक्षा - षष्ठ उक्तिप्रक्रमः। अकर्मणाम् - उत्पद्यते घटः । घटमुत्पादयति कुलालः। यदा त्वेषां इनन्तानां पुनरिन् , तदा ग्रामं गमयति चैत्रं मैत्रेण जैत्रः, इत्यादि प्रयोक्तव्यम् । आख्याते-अवीवदत् वीणां परिवादकेन । तथा कुमारसंभवे
'स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ।' इत्यादिकमुन्नेयम् । एवं गत्यर्थादीनां कर्तुरिनि यत् कर्मत्वमुक्तं तस्यापि प्रतिषेधमाह।
न नीखाद्य( ? )दिशब्दा यत् क्रन्दह्वाः कर्तृकर्मकाः। तथा भक्षिरहिंसायां वही सारथिकर्तृकः॥
एषां गत्यर्थाद्यर्थेऽपि पूर्व कर्तुरनुक्तत्वात् तृतीयैव न कर्मत्वम् । यथा- नाययति ग्रामं भारं चैत्रेण मैत्रः। खादयति गुडं पुत्रेण जननी । आदयति चेत्यादि।
हृ-क्रोरपि तथा कर्ता इनन्ते कर्म वा भवेत् । अभिवादि-दृशोरेवमात्मने विषये परम् ॥
एषां च पूर्वकर्तुर्वा कर्मत्वमनुक्तं च । यथा-हारयति भारं ग्राम चैत्रं मैत्रः, चैत्रेण वा । कारयति धर्म शिष्यं गुरुः, शिष्येण वेत्यादि । __अथ कर्मणि-ओदनः पच्यते चैत्रेण । कर्मण्युक्तौ अनुक्तः कर्ता, उक्तं कर्म। अनुक्ते कर्तरि तृतीया। उक्तत्वात् कर्मणि प्रथमा। एवं सर्वत्र । तथा त्याद्यन्तक्रियायाः प्राधान्यं न तु कृदन्तक्रियायाः। इत्यादि क्रियाकृतमेव कर्म उक्तं भवति । न तु क्त्वा-तुम् - शन्तृङ्- आनशप्रभृति कृदन्तक्रियायाः। तर्हि कथं ओदनः पक्त्वा भुज्यते? सत्यम् । इत्यादी तु त्यादिक्रियापेक्षया एवोक्तम्। द्विविधं कर्म, गौणं मुख्यं च । अनेककर्मसु प्रायो गौणकत्वमेव कर्मोक्तं भवति । उक्तं च
दुहादेर्गौणकं कर्म नीवहादेः प्रधानकम् ।
इनन्ते कर्तृकर्मैव अन्यद् वा वक्ति कर्मजः ॥१॥ तत्र द्विकर्मका दुहादयाःदुहि याचि रुधि प्रच्छि मिक्षि चित्रामुपयोगनिमित्तमपूर्वविधौ । ब्रुवि शासि गुणेन च यच्छ च ते तदकीर्तितमाचरितं कविना ॥ २ ॥
दुखते गौः पयो गोपालेन इत्यादावुपयोगित्वात् पयः तत् प्रधानम्, तन्निमित्तं गवाद्यप्रधानम् । अतस्तत्र गौणात्वादुक्तत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org