________________
बालशिक्षा-षष्ठ उक्तिप्रक्रमः। नजुपसृज्यते यत्र सोऽप्यनश्वो यथानहम् । संख्यापूर्वो द्विगु यः पश्चकपाल ओदनः॥५॥ यथा पञ्चगवधनः पञ्चपूलीत्ययं पुनः। द्वितीयार्थोत्तरपदसमाहारेषु नान्यतः ॥ ६ ॥ द्वन्द्वे चकार एव स्यात् प्रथमान्तपदे पदे । यत्र द्वित्वं बहुत्वं च स द्वन्द्व इतरेतरः ॥७॥ समाहारः स विज्ञेयो यत्रैकत्वं नपुंसकम्। शिवशक्ती रथाश्वेभा रथाश्वेभं द्वितीयके ॥८॥ पूर्वेऽव्ययेऽव्ययीभावोऽनपदोचारपूर्वकः। स नपुंसकलिङ्गः स्यात् उपकुम्भमधिस्त्रि च ॥९॥
.
॥ इति ठ० संग्रामसिंहविरचितायां बालशिक्षायां
समासप्रक्रमः पञ्चमः ॥७॥
[षष्ठ उक्तिप्रक्रमः।] उक्तिश्चतुर्की-कर्त्तरि, कर्मणि, भावे, कर्मकर्तरि च। . - कर्तरि यथा-पचत्योदनं चैत्रः। कर्तरि उक्तौ कर्तृविहितेन प्रत्ययेन कर्ता उक्तः स्यात् । उक्तत्वात् कर्तरि प्रथमा । यदा स कर्ता अन्येन प्रयुज्यते तदाऽसौ अनुक्तकतैव । अनुक्ते कर्तरि तृतीया । प्रयोजकश्चोक्तः कर्ता स्यात् । यथा पाचयत्योदनं मैत्रश्चैत्रेण । एवं सर्वत्र । गत्यादीनां त्विनन्तानां पूर्वकर्ता कर्म स्यात् । उक्तं च
गमनाहारबोधार्थशब्दार्थाकर्मधातुषु ।
अनिनन्तेषु यः कर्ता स्यादिनन्तेषु कर्म तत् ॥१॥... गत्यादीनां यथा-ग्रामं गच्छति चैत्रः । ग्रामं गमयति चैत्रं मैत्रः। प्राप्नोति संपदं मैत्रः। प्रापयति मैत्रं संपदं नृपः। ___ आहारार्थानाम् - भुङ्क्ते ओदनं छात्रः । भोजयत्योदनं छात्रमार्यः । पयः पिबति चातकः । पयः पाययति चातकं जलदः।
बोधार्थानाम् - वुध्यते धर्म शिष्यः । बोधयति धर्म शिष्यं गुरुः। पश्यति चैत्रं मैत्रः। दर्शयति चैत्रं मैत्रं नृपः।
शब्दार्थानाम्-पठति शास्त्रं शिष्यः। पाठयति शास्त्रं शिष्यं गुरुः । आभाषते मित्रं पुत्रः। मित्रं भाषयति पुत्रं राजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org