________________
बालशिक्षा-पञ्चमः समासप्रक्रमः। वैषयिकौपश्लेषिकमौपचारिकमेव च । नैमित्तिकं [च] सामीप्यमभिव्यापकमन्तिमम् ॥ १६ ॥ अन्यत्रासम्भवे यस्य विषयस्तत्र केवलम् । तच्च वैषयिकं ज्ञेयं दिवि देवा नरा भुवि ॥१७॥ यत्रैकदेशसंयोगस्तदौपश्लेषिकं यथा । भुवनेऽस्ति कटे आस्ते ग्रामे वसति पण्डितः॥१८॥ यत्र व्यवहितं किश्चिदुपचारेण कथ्यते। .. अङ्गल्यग्रे करिशतमेवमाद्यौपचारिकम् ॥ १९॥ निमित्तं यत्र कालादि तन्नैमित्तिकमुच्यते। यथा शरदि पुष्यन्ति वृक्षाः सप्तच्छदाः किल ॥ २०॥ समीपस्थप्रसिद्धेन यस्य थे(स्थे)यं निगम्यते । तत्सामीप्यकनाम्ना च गङ्गायां घोषको यथा ॥ २१ ॥ आधेयं व्याप्य यस्तिष्ठेत् यथा रोगः कलेवरे। तिलेषु तैलमित्यादौ तदभिव्यापकं मतम् ॥ २२ ॥ द्वयोरेकक्रियोत्पन्नसम्बन्धोऽनेकधा मतः। स च परस्परापेक्षी भेद्य-भेदकयोरिव ॥ २३ ॥ यथेयं स्त्री नरस्यास्य भेदकः पुरुषोऽत्र सा। भेद्याद्यास्याः पुमांश्चात्र भेद्योऽयं भेदका तु सा ॥२४॥ ग्रं० ९७ ॥
॥ इति ठ० संग्रामसिंहविरचितायां बालशिक्षायां
कारकप्रक्रमश्चतुर्थः ॥ ७॥
[पञ्चमः समासप्रक्रमः।] कर्मधारयोऽथ बहुव्रीहिस्तत्पुरुषस्तथा। द्विगुर्द्वन्द्वोऽव्ययीभावः समासाः षट् प्रकीर्तिताः ॥ १॥ मध्येऽसौ चाथ तत्शब्दो द्विपदः कर्मधारयः। प्रधानपुरुषश्चासौ यथा नीलोत्पलं च तत् ॥ २॥ तथोपमानभूतेऽपि शस्त्री श्यामा नृकेशरी । यत्शब्दान्तो बहुव्रीहियथासौ कृतभोजनः ॥ ३ ॥ विभक्तयोः द्वितीयाद्याः समस्यन्ते परेण चेत् । . स हि तत्पुरुषः कष्टश्रितो धर्मरतो यथा ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org