________________
३७
बालशिक्षा-चतुर्थः कारकप्रक्रमः । अथ कारकाणां भेदसञ्ज्ञा।
उच्यते द्विविधः कर्ता स्वतनो हेतुरेव च । यः करोति स कर्तेति खतनो मुख्यसञ्ज्ञकः ॥१॥ कारयति यः स हेतुः प्रयोजक इति स्मृतः। प्रेषकोऽध्येषकश्चानुकूल्यभागीति स त्रिधा ॥२॥ प्रेषते यः प्रभुत्वेन प्रेषकः स यथौदनम् ।। भृत्येन पाचयत्येष नरः स्वामित्वमावहन् ॥ ३ ॥ पुनरध्येषते यस्तु सत्कारसहितं यथा। गुरुमामयेद् भोक्तुं ततः सोऽध्येषको बुधैः ॥४॥ प्रेषतेऽध्येषते नानुकूल्यभागी च केवलम् ।
ओदनं प्रति हेतुः सन् सुपुत्रो जनकं यथा ॥५॥ निवर्त्य च विकार्य च प्राप्यं कर्म च तत् त्रिधाः । यदसज्जायते वस्तु जन्मना वा प्रकाशते ॥ ६॥ तन्निवयं कटं कुर्यात् प्रसूते वाथ नन्दनम् । गुणान्तरस्य चाधाने प्रकृत्युच्छेदने तथा ॥७॥ प्रामोति विक्रतिं यच्च तद विकार्यमिति स्मृतम् । यथा लुनात्यसौ काण्डं काष्ठं दहति पावकः ॥८॥ तत् प्राप्यं प्रकृतिस्थं यद् यथा पश्यति भास्करम् । बाह्यमाभ्यन्तरं चेति द्विविधं करणं मतम् ॥ ९॥ बाह्यं लुनाति दात्रेण दण्डेनाहन्ति दन्तिनम् । आभ्यन्तरं दृशा हन्ति याति द्यां मनसा यथा ॥१०॥ अनुमत्रनिराकर्तृ प्रेरकं संप्रदानकम् । यद् ददाम्यहमित्युक्त्वा ददाति तदनुज्ञया ॥ ११॥ गुरवे गां यथा शिष्यस्तदाहुरनुमन्तृकम् । यत् प्रदेहि भणित्वेति प्रेरितो यदि दायकः ॥ १२॥ ददाति बटवे भिक्षां प्रेरकं तद्विदुर्बुधाः । यन्नानुमन्यते नापि निराकुर्यान्न याचते ॥ १३ ॥ दत्तेऽर्काय यथा मालामनिराकत तन्मतम् । चलाचलविभेदेन द्विधाऽऽपादानमुच्यते ॥ १४ ॥ चलं यथाऽश्चात् पतितो वृक्षात् पर्णमिति स्थिरम् । षोढाधिकरणं ख्यातं भेदैर्विषयकादिभिः ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org