________________
३६
बालशिक्षा-चतुर्थः कारकमक्रमः । 'कर्ट-कर्मणोः कृति नित्यम्।' इत्यनुक्ते कर्तरि । भवतः आसिका, भवतः शायिका । कृत्यानां कर्तरि वा । चैत्रेण कटः कर्तव्यः, करणीयः, कृत्या, कार्यः, चैत्रस्य वा ।१७। 'कर्मणि।' अपां स्रष्टा । पुरां भेत्ता। 'न निष्ठादिषु ।' इति वचनात् । 'क्त क्तवतु शन्तृङ् आनश वन्सु कि उदन्त उकञ् अव्ययखलार्थेषु द्वितीयैव ।' द्विषः शत्रौ था। चौरं द्विषन् चौरस्य वा १८ । एवमष्टादशस्थानेषु षष्ठी ॥
__ 'य आधारस्तदधिकरणम् ।' कटे आस्ते इत्यनुक्ते अधिकरणे सप्तमी।१।
वि० 'काल - भावयोः सप्तमी।' काले शरदि पुष्यन्ति सप्तच्छदाः।२। भावे गोषु दुह्यमानासु गतः।३। 'इनन्तक्तप्रत्ययस्य कर्मणि ।' अधीती व्याकरणे शिष्यः । ४। 'निमित्तात् कर्मसंयोगे।' चर्मणि दीपिनं हन्ति । चर्मनिमित्तमित्यर्थः। ५। 'विषये 'धर्मे विरलः श्रद्धावान् । ६ । 'आधिक्यार्थोपशब्दयोगे।' उप खार्या द्रोणः । द्रोणाधिका खारी इत्यर्थः । ७। 'खाम्यर्थाधियोगे ।' अधि ब्रह्मदत्तेषु पञ्चालाः । अधि पश्चालेषु ब्रह्मदत्तः इति।८। 'खाम्यादौ च ।' गवां खामी, गोषु खामीइत्यादि सप्तभिर्योगैः ।१५। 'निर्धारणे च ।' पुंसां क्षत्रियः शूरः, पुंस्सु वा । १६ । एवं षोडशस्थानेषु सप्तमी॥
एवं नवतिस्थानेषु सप्तम्यादयो विभक्तयः प्रायो दृश्यन्ते । तथापि विवक्षितानि कारकाणि भवन्ति । यथा वृक्षात् पर्ण पतति; वृक्षस्य पर्ण पतति । स्थाली ओदनं पचति, स्थाल्या पचति, स्थाल्यां वा। एवमेकैकस्य कारकस्य नाना विवक्षा दृश्यन्ते। . तथा विशेषणं विशेष्यस्य लिङ्ग-संख्या-विभक्तीः प्रायो गृह्णाति । यथा विद्वान् पुरुषोऽस्ति । विदुष्यौ स्त्रियौ स्तः। बहूनि कुलानि सन्ति । प्रमाणमित्यादयः।। .. पुनराविष्टलिङ्गाः शब्दा विशेष्यस्य विभक्तिमात्रमेवानुवर्त्तन्ते । न तु तत्संख्यां लिङ्गं च । यथा
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । श्रीकर्णदेवस्य नराधिपस्य शुभ्रं यशः केवलमप्रमाणम् ॥१॥ तथा-पुत्रो मूर्तिमती आशा कन्येयं कुलजीवितम् ।
कलत्रं विभवश्चेति वयमेते कुटुम्बकम् ॥२॥ एवं नित्यलिङ्गाः शब्दा विशेषणभूता आविष्टलिङ्गा ज्ञेया। संपन्ना यवाः । जातावेकवचनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org