________________
३५
बालशिक्षा-चतुर्थः कारकप्रक्रमः । भाववाचिनः।' पाकाय पक्तये पचनाय ब्रजति । पक्तुमित्यर्थः। ९ । यस्मै कुप्यति इति वक्तव्यबलात् कुपिऊधिद्रुहेासूयार्थानाम् । यं प्रति कोपः। छात्राय कुप्यतीत्यादि । १० । 'गत्यर्थकर्मणि द्वितीया- चतुर्थी चेष्टायामनध्वनि।' ग्रामं गच्छतिग्रामाय वा।गतेःसाहचर्यादिहै[क]कर्मका एव धातवो ग्राह्याः। तेन ग्राममजां नयति इत्यादिषु द्वितीयैव । ११ । 'मन्यकर्मणि चानादरेऽप्राणिनि ।' न त्वा तृणं मन्ये, न त्वा तृणाय वा। १२ । 'स्पृहि-नत्योः कर्मणि ।' पुष्पेभ्यः स्पृहयति पुष्पाणि वा । देवं नत्वा, देवाय वा । १३ । एवं त्रयोदशसु स्थानेषु चतुर्थी ॥
- 'यतोऽपैति भयमादत्ते वा तदपादानम् ।' वृक्षात् पर्ण पतति । व्याघ्रादू बिभेति । उपाध्यायादागमयति । इत्यनुक्ते अपादाने पञ्चमी ।।
वि० पर्यपाङ्योगे पश्चमी।'इह अप-परी वर्जने। परि त्रिगर्तेभ्यो वृष्टो देवः।२। अप पाटलिपुत्राद् वृष्टो देवः । ३। एतौ वर्जयित्वेत्यर्थः । आङ् मर्यादाभिविध्योः । आपत्तनात् वृष्टो देवः । पत्तनं यावदभिव्याप्य वेत्यर्थः । ४। 'दिगितरर्तेऽन्यैश्च ।' पूर्वो ग्रामात् । ५। इतरो लोकात् । ६॥ धनादृते न कार्यसिद्धिः । ७। द्वितीयाऽपीष्टा । सुकृतादन्यत्र रत्नं किमपि । ८। स्तोकाल्पकृच्छ्रकतिपयेभ्यो मोचनार्थे करणे।' स्तोकान्मुक्तः स्तोकेन वा इत्यादि चतुर्व्यः।१२। 'यप् लोपे।' प्रासादात् प्रेक्षते । प्रासादमारुह्य प्रेक्षते इत्यर्थः । १३ । 'आरभ्य प्रभृति विना योगे च।' बाल्यादारभ्य सुकृतिः। १४ । बाल्यात् प्रभृति वीरोऽयम् । १५। धनाद् विना नेष्टसिद्धिः । १६ । एवं विनायोगे द्वितीया तृतीया पञ्चमी च । एवं षोडशस्थानेषु पञ्चमी॥ . सर्वत्र परस्परापेक्षया सम्बन्धः। परं भेदकात् षष्ठी भवति । राज्ञो देशः, देशस्य राजा इत्यनुक्ते संबन्धे षष्ठी।१।
वि० षष्ठी हेतुप्रयोगे।' अन्नस्य हेतोर्वसति ।२। 'दय ईशोः कर्मणि।' सर्पिषो दयते । मधुन ईष्टे । ३। 'ज्ञो विदर्थस्य करणे।' सर्पिषो जानातीत्यर्थः। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्टीच'चकारात् सप्तम्यपि। गवां स्वामी, गोषु वा। इत्यादि सप्तभिर्योगैः।११। निर्धारणे च।' गच्छतां धावन्तः, शीघ्राः गच्छत्सु वा । १२। 'स्मृत्यर्थकर्मणि। मातुः स्मरति, मातरं वा । १३ । 'करोतेः प्रतियत्ने ।' सतो गुणान्तरापादनं प्रतियत्नः । कृष्णस्यानुकरोति, कृष्णं वा । १४ । "हिंसार्थानामज्वरेः।' चौरं निहन्ति, चौरस्य वा ।१५। 'व्यवहृपणिदिवीनां व्यवहारार्थानां कर्मणि ।' शतस्य व्यवहरति, शतं वा । एवं त्रयाणां कर्मणि । १६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org