SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - चतुर्थः कारकप्रक्रमः । गावो विद्यते यस्य स गोमान् चैत्रः । चित्रा गावो विद्यन्ते यस्य स चित्रगुः । इत्युक्ते सम्बन्धे प्रथमा । ३४ एवमुक्ते सर्वत्र प्रथमा । आमन्त्रणे च हे पुत्र, हे पुत्रौ, हे पुत्राः । एवं उक्तामन्त्रणयोः प्रथमा ॥ 'यत् क्रियते तत् कर्म्म ।' चैत्रः कटं करोति इत्यनुक्ते कर्मणि द्वितीया । वि० 'एनान्तनिषा समया हा धिग अन्तरान्तरेण यावत् विना ऋते अभि परि प्रति अनु उप एषां योगे च ।' दक्षिणेन ग्रामम् । 'अदूरे एनोऽपञ्चम्याः ।' १ । दक्षिणेन ग्रामं गिरिः । २ । निकषा ग्रामम् । ३ । समया ग्रामम् । ४ । हा पुत्रम् । ५ । धिक् पुत्रम् । ६ । अन्तरा गार्हपत्यमाहवनीयं च वेदिः । ७ । साहसमन्तरेण न खलु सिद्धिः । ८ । मां यावद्देहि । ९ । त्वां विना न सुखम् । १० । ऋते धर्म्म न श्रियः । ११ । तथा लक्षणवीप्सेत्थंभूतेऽभिर्भागे च परि प्रती । अनुरेषु सहार्थे च हीने चोपश्च कथ्यते ॥ वृक्षमभि विद्योतते विद्युत् । वृक्षं वृक्षमभि तिष्ठति । साधुर्देवदत्तो मातरमभि । १२ । यदत्र मां परि स्यात् । १३ । यदत्र मां प्रति स्यात् । १४ । चकारात् पूर्वार्थेऽपि परि - प्रती । १५ । वृक्षमनु विद्योतते विद्युत् । पर्वतमनु वासिता सेना । अन्वर्जुनं योद्धारः । उपार्जुनं योद्धारः । १६ । क्रियाविशेषणे कर्मैकत्वं नपुंसकं च । साधु स्थाली पचति । १७ । एवं सप्तदशसु स्थानेषु द्वितीया ॥ 'येन क्रियते तत् करणम् ।' दात्रेण लुनाति इत्यनुक्ते तृतीया । वि० 'तृतीया सहयोगे ।' मित्रेणासहागतः । १ । पुत्रेण सार्द्धं गतः । २ । 'हेत्वर्थे ।' भिक्षया भिक्षुर्वसति । वसने भिक्षाहेतुरित्यर्थः । ३। 'कुत्सितेऽङ्गे ।' अक्ष्णा काणः पादेन खञ्जः । ४ । 'विशेषणे ।' जटाभिस्तापसमद्राक्षीत् । ५ । 'कर्त्तरि च ।' अनुक्ते कर्त्तरि । त्वया चक्रे । ६ । 'विनायोगे ।' पुण्यैर्विना न सौख्यम् । ७ । 'अशिष्टाचारे संप्रदानेऽपि ।' दास्या संप्रयच्छते स्वर्णं कामुकः । ८ । एवमष्टसु स्थानेषु तृतीया ॥ 'यस्मै दित्सा रोचते धारयते वा तत् संप्रदानम् ।' गुरवे गां ददाति । बालाय रोचते मोदकः । चौराय गां धारयति । इत्यनुक्ते संप्रदाने चतुर्थी । १ । वि० 'नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगे चतुर्थी ।' नमो देवेभ्यः । इत्यादि षड्भियोगैः | ७ | 'तादर्थ्ये ।' यूपाय दारु | ८ | 'तुमर्थाच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy