SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - चतुर्थ: कास्कप्रक्रमः । ३३ प्रियाष्टानि । प्रियाष्टेन । इत्यादि वृक्षवत् । हे प्रियाष्ट, हे प्रियाष्टन् । अनात्वपक्षे तु प्रियसतन्वत् । प्रियकति- प्रियविंशति - आद्याः सर्वेषु वचनेषु सुबुद्धिवत् । प्रियत्रिंशदायाः शत्रुजिवत् । ॥ इति स्यादिप्रक्रमे तृतीयः संख्याधिकारः ॥ ग्रंथाग्रं० ४९० ॥ ॥ इति ठ० संग्रामसिंहविरचितायां बालशिक्षायां स्यादिप्रक्रमस्तृतीयः ॥ ५ ॥ * [ चतुर्थः कारकप्रक्रमः । ] कर्तृ - कर्म-करण - संप्रदान- अपादान - अधिकरण नामानि षट् कारकाणि सप्तमः संबन्धश्च । तदिमानि षट् कारकाणि संबन्धसहितानि उक्तानि अनुक्तानि च द्विप्रकाराणि भवन्ति । उक्तेषु सर्वेषु प्रथमा । अनुतेषु च कर्म्मणि द्वितीया । करणे तृतीया । संप्रदाने चतुर्थी । अपादाने पञ्चमी । संबन्धे षष्ठी । अधिकरणे सप्तमी । उक्तानि यथा त्यादि - कृत्तद्धित समासैर्यदुक्तं तदुक्तमुच्यते । लत्र प्रथमा । यथा - चैत्रः कटं करोति । कारको देवदत्तः । वैयाकरणः पुरुषः । कृतप्रणामः पुत्रः । इत्युक्ते कर्तरि प्रथमा । कटः क्रियते । भुक्त ओदनः । शतिकः पटः । आरूढो वानरो यं वृक्षं स आरूढवानरो वृक्षः । इत्युक्ते कर्म्मणि प्रथमा । नाति येन चूर्णेन तत् स्नानीयं चूर्णम् । 'कृत्ययुटो अन्यत्रापि [च] ' इति वचनात् अनीयः । इत्युक्ते करणे प्रथमा । दीयते यस्मै ब्राह्मणाय स दानीयो ब्राह्मणः । पूर्ववदनीयः । दत्तं भोजनं यस्मै अतिथये, स दत्तभोजनोऽतिथिः । इत्युक्ते संप्रदाने प्रथमा । बिभेत्यस्मादिति भीमो राक्षसः । भी भीषिभ्यां मक् । उत्सन्ना जनपदा यस्माद् देशात्, स उत्सन्नजनपदो देशः । इत्युक्ते अपादाने प्रथमा । अस्पते उपविश्यतेऽस्मिन् इत्यासनं पीठम् । मत्ता बहवो मातङ्गा यस्मिन् वने, तत् मत्त बहुमातङ्कं वनम् । इत्युक्ते सम्बन्धे (अधिकरणे ? ) प्रथमा । 5 - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy