SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - षष्ठ उक्तिप्रक्रमः। .क्त-क्तवन्तौ निष्ठा । कर्मणि क्तः, कर्तरि क्तवन्तुः। 'गत्यकर्मकश्लिष-शी-स्थास-वस-जन-रुह-जीर्यतिभ्यश्च।' इति कर्तरि क्तोऽपि । यथा-अयमागतः, आगतवानपि । तथा परस्मैपदिनि कन्सुः। आत्ममेपदिनि कानः। उभयपदिन्युभयपदम् । करीउ लेउ देउ इत्यादौ क्त्वा, करिवा लेवा देवा इत्यादौ तुम् कर्तुमित्यादि। कापि घञ् क्तियुटोऽपि । पाकाय पक्तये पचनाय याति-पक्तुं याति इत्यर्थः। 'तुमर्थाच भाववाचिनः' इति चतुर्थी। शक्ल-ज्ञायोगे क्त्वाप्रत्ययोक्ती तुम् । करी जाणुं पढी सकउं-कत्तुं जानामि पठितुं शक्नोमि इति। करिवउं लेवउं देवउं इत्यादौ कर्मणि तव्यानीयौ । कर्तव्यं करणीयम् । कचित् क्यप् - घ्यणावपि । कृत्यं कार्य चेति । करणाहरु लेणाहरु देणाहरु इत्यादी भविष्यति काले तुमन्तात् काममनसौ, तुमो मलोपश्च । कर्तुकामः, कर्तुमनाः । तथास्य संहितौ शत्राणी च । परस्मैपदिनि शन्तृङ्, आत्मनेपदिन्यान् । उभयपदिनि द्वावपि । करिष्यन् करिष्यमाणः । 'आन्मोऽन्त आने ।' अकरणि अजणणि होइये इत्यादौ 'नज्यन्याक्रोशे ।' अकरणिस्ते वृषल भूयात् । ___ पाचणा भाजणा इत्यादौ कलिमः कर्मकर्तरीष्यते। भिदेलिमा माषाः। पचेलिमास्तण्डुलाः। इति कृत्प्रत्ययाः॥ अथ विशेषप्रत्ययप्राप्तिमाह - उपमाने इव-वती । राजेव राजवत् । आचारेऽर्थे तृतीयोऽपि । 'उपमानादाचारे।' इति कम्मणो यिन् । पुत्रमिवाचरति पुत्रवदाचरति पुत्रीयति माणवकम् । आचारादपि स्यात् । कुव्यामिवाचरति कुटीयति प्रासादे । 'कर्तुरायिः सलोपश्च।' हंस इवाचरति हंसवदाचरति हंसायते । आयि लोपे तु हंसति च । धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् ।' इति सन् । कर्तुमिच्छति चिकीर्षति । 'नाम्न आत्मेच्छायां यिन् ।' 'काम्य च ।' पुत्रमिच्छति पुत्रीयति पुत्रकाम्यति । 'धातोर्यशब्दश्चक्रीयितं क्रियासमभिहारे।' इति व्यञ्जनादेरेकस्वराद् धातोर्यः प्रत्ययः। भृशं पुनःपुनवों पचति पापच्यते । 'वालक चेक्रीयितस्येति ।' पापक्ति पापचीति । एवं सर्वत्र । प्रायो द्वितीयारक्ष(क्षर?)स्यावर्णके सति इन् । ___कराइव कराविवउं कराविसइ करावतउ करावी कराविवा इत्यादी इनन्तात् तथोदितप्रत्ययाः स्युः । ग्रन्थाग्रं ११०॥ ॥ इति ठ० संग्रामसिंहविरचितायां बालशिक्षायां उक्तिप्रक्रमः षष्ठः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy