SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा-तृतीयः स्यादिप्रक्रमः । एवं धर्मसिस्-वाक्यविवक्ष-वृक्षसिसिक्ष-पापमुमुक्ष - गोदुधुक्षमुख्याः सनन्ताः। वि० विश प्रवेशने विविक्ष- अत्रान्तलोपे निमित्ताभावे इत्यादिना कस्य षत्वे डत्वम् । अथ सुखार्थमादिलोपे षस्य डत्वम् । विविट्,०-ड्। विविड्भ्याम् । विविट्सु। एवं गृहविविक्ष -मधुलिलिहूं-धर्मपिपृक्ष-शास्त्रदिदृक्ष-द्रव्यजिघृक्ष-मुख्येषु ष-ड- स्थानीयेष्वेवेति नियमात् पिपक्षादिष्वेवं न स्यात् । ॥इति स्यादिप्रक्रमे द्वितीयो व्यञ्जनाधिकारः॥ अथ संख्याशब्दाः। एक शब्द एकवचनान्तो विवक्षितो द्विबहुवचनान्तोऽप्यस्ति । यथा एकौ द्वौ गती, एके आगच्छन्ति । लिङ्गत्रये सर्ववत्। द्वि-द्वौ २। द्वाभ्याम् ३॥ द्वयोः २। स्त्री-क्लीवयोः द्वे २। शेषं पुंवत् । अकि द्वको । स्त्रियां द्विके । क्लीबे द्वके । उभ-उभौ २। उभाभ्याम् ३ । उभयोः २। स्त्री-क्लीवयोः उभे २। अकि उभको। स्त्रियां उभिके । क्लीबे उभके। त्रि प्रभृति अष्टादशयावत् बहुवचनान्ताः। त्रि-त्रयः । त्रीन्। त्रिभिः।त्रिभ्यः शत्रयाणाम्।त्रिषु। त्रि-चतुरोः स्त्रियां तिस चतह विभक्तो।' तिस्रः २ । तिसृभिः। तिसृभ्यः २। 'न नामि दीर्घम् ।' इति तिसृणाम् । तिसृषु । क्लीबे त्रीणि २। चत्वारः । चतुरः । चतुर्भिः । चतुर्व्यः २ । चतुर्णाम् । चतुषु । स्त्रियां चतस्रः २। चतसृभिः। चतसृभ्यः २। चतसृणाम् । चतसृषु । क्लीबे चत्वारि २। ष्णान्ताः संख्याशब्दाः कतिश्च अलिङ्गत्वात् । पुं-स्त्री-क्लीबेषु प्रयुक्तास्तुल्याः । पश्चन्- पञ्च २। पञ्चभिः । पञ्चभ्यः २। पञ्चानाम् । पञ्चसु ।'औ तस्मान्जस्शसोः।' अत्र तस्मात् ग्रहणमात्वस्यानित्यार्थम् । तदनात्वपक्षे पश्चन्वत्।। कति २। कतिभिः। कतिभ्यः २। कतीनाम् । कतिषु । या संख्या सा संख्या मानमेषाम् । यदू-तत्-किमः संख्याया डतिर्वा । यावत्तावदर्थी यति-तति-शब्दो कतरुपलक्षणत्वात् कतिवत् । शेषाः संख्याशब्दा लिङ्गान्तरयुक्तेष्वपि विशेष्येषु आविष्टलिङ्गा एकवचनान्ताः । यथा स्त्रीलिङ्गो विंशतिशब्दः । विंशतिः पुरुषाः, स्त्रियः, कुलानि वा सन्ति । एवमेकवचनेष्वेव । बुद्धिवत् । विंशत्यै विंशतये इत्यादि । एवं षष्टि-सप्तति-अशीति-नवति-कोटयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy