________________
बालशिक्षा - तृतीयः स्यादिप्रक्रमः। वि० तुरासाह् इन्द्रः। सहेः साडः षत्वम् । तुरापाट्, -तुरासाहौ। तुरासाहः। तुराषाभ्याम् । तुराषासु।
हव्यवाह-अघुट्खरे वाहे,शब्दस्यौ । हव्यौहः । हव्यौहा । भ्रुवाह - अघुट्खरे अनवर्णादूट् । भ्रूहः । भ्रूहा।
अनड्वाह-सौ तु अनड्वान् अनड्वाही अनड्वाहः । अनड्वाहम् । अनडुहश्चेति । अघुटि वाशब्दस्योत्वम् । अनडुहः । अनडुहा । विरामेत्यादिना हस्य दत्वम् । अनडुयाम् । अनड्डुत्सु । हे अनड्वन् ।
स्त्रीलिङ्गः-उपानह् । उपानत्,०-द् । उपानही । उपानद्भयास् । उपानत्सु।
त्रिलिङ्गाः-दामलिह् मधुलिवत् । क्लीवे दामलिट्, ०-ड् दामलिही दामलिंहि ।२।
एवमभ्रंलिह - मुख्याः । निगुह्-हचतुर्थान्तस्येत्यादिना विरामव्यं० गस्य घत्वम् । निघुट्, - निगुहौ । निघुड्भ्याम् । निघुन्सु।।
प्रष्टवाह-अघुट्खरे वाहेर्वाशब्दस्यौ । प्रष्टौहः । प्रष्टौहा। स्त्री-क्लीवयोरीकारे । प्रष्टौही।
एवं शालावाह-मुख्याः ।
खनड्वाह् । अनड्वाह्वत् । स्त्रियां स्त्री वेत्येके । खनडुही, खनड्वाही। क्लीबे वनडुत्, -द् खनडुही खनड्वांहि ।२।
उष्णिह-दृगादित्वाद् गत्वम्। उष्णिक, -ग् उष्णिहो । उष्णिग्भ्याम् । उष्णिक्षु ।
गोदुह्-दादेहस्य गः। गोधुक, . - ग गोदुहौ।गोधुरभ्याम् ।गोधुक्षु।
मुह्- 'मुहादीनां वा।' इति गत्वं डत्वं च । मुक्, मुग, मुह्, मुड्। मुहौ । मुग्भ्याम् । मुड्भ्याम् । मुक्षु, मुसु ।
एवं द्रुह्, ष्णिह-द्रुह्यत्र दस्य धत्वे । मित्रध्रुक,०-ग् । मित्रधुद, ०-ड् मित्र हो । मित्रनुग्भ्याम् , मित्रध्रुड्भ्याम् ।
क्षान्ताः गोरक्ष-'संयोगादेधुट्।' इति कलोपे षस्य डत्वम् । गोरट्, गोरडू गोरक्षौ । गोरट्भ्याम् । गोरट्सु। क्लीबे। गोरट्,-ड् गोरक्षी गोरंक्षि ।२।
एवं काष्ठतक्ष-रिपुस्तक्ष-मुख्याः ।
वि०पिपक्षतीति पिपक्ष-विरामव्यं० संयोगान्तलोपे पिपक्, -। पिपरभ्याम् । पिपक्षु । अथ पिपक्ष इत्यत्र अलोपे निमित्ताभावे इत्यादिना षस्य सत्वे पिपक्स् इति रूपेऽप्येवम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org