SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - तृतीयः स्यादिप्रक्रमः । वि० विद्वन्स् । अघुट्खरे वंसेर्वशब्दस्योत्वम् । विदुषः । विदुषा । 'विरामत्र्यञ्जनादिष्वनडुन्नहिवंसीनां च ।' इति सस्य दत्वम् । विद्वद्भ्याम् । विद्वत्सु ! स्त्रियाम् - विदुषी । क्लीबे विद्वत् विदुषी विद्वांसि । २ । एवं वन्सप्रत्ययान्ताः । सेटस्तु यथा- पेचिन्स् । अघुट्खरादौ सेट्कस्यापि वसेर्वशब्दस्योत्वम् । पेचुषः । पेचुषा । स्त्री - क्लीबयोरीकारे पेचुषी । वि० जगन्वस् । अत्र वस्योत्वे 'निमित्ताभावे' इत्यादिना न मत्वे, 'गमहन०' इत्यादिना उपधालोपे च । जग्मुषः । जग्मुषा । जग्मुषी । शिश्रवन् । वस्योत्वे खरादाविवर्णोवर्णान्तस्य धातोरियुवौ । शिश्रियुषः । शिश्रियुषा । एवमिवर्णाद् वन्स् । वि० चिचिवन्स् । य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य ।' इति यत्वे । चिच्युषः । चिच्युषा । एवं जिगिवन्स्- निनीवन्स् - मुख्याः । तुष्टुवन्स् - तुष्टुवुषः । तुष्टुवुषा । बभूवन्स् - बभूवुषः । बभूवुषा । एवमुवर्णाद्वन्स् । एवं ऋकारात् वन्स् । कृ । चकृवन्स् - चक्रुषः । चक्रुषा । ऋ । शिशीर्वन्स - वस्योत्वे व्यञ्जनाभावात् । ईरोभावे शिशीरुषः । शिशिरुषा । एवं ऋकारात् वन्स् । सुपुमन्स् सुमनस्वत् । स्त्रियां सुपुंसी । क्लीबे सुपुम् सुपुंसी सुपुमांसि । २ । अथ धातुसकारान्ताः सुकन्स् । महत्साहचर्यात् धातोर्न स्यादिति दीर्घाभावे । सुकन् सुकंसौ सुकंसः । सुकंसम् । इदनुबन्धत्वात् नानुषङ्गलोपः । सुकंसः । सुकंसा । सुकन्भ्याम् । क्लीबे सुकन् सुकंसी सुकंसि । २ । एवं सुहिन्- मुख्याः । पिण्डग्रस धातुत्वाद् 'अन्त्वसन्त०' इत्यादिना न दीर्घः । पिण्डग्रः पिण्डग्रस । पिण्डग्रोभ्याम् । पिण्डग्रसु । क्लीबे पिण्डग्रः पिण्डग्रसी पिण्डग्रंसि । एवं चर्म्मवसादयः । - दू । उखास्रस् । 'स्रसिध्वसोच' इति सस्य दत्वे उखाश्रत्, ०उखानसौ । उखानद्भ्याम् । उखास्रत्सु । क्लीबे सुपीः सुपिषी सुपींषि । २ । एवं सुतुस् - सुरित्यादि । हान्ताः - पुंलिङ्गाः । यथा मधुलिह भ्रमरः । मधुलिट्, ०-डू मधुलिहौ । मधुलिभ्याम् । मधुलिट्सु । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy