________________
बालशिक्षा-तृतीया स्यादिप्रक्रमः। पूर्वविधि प्रति स्थानिवदित्याकारस्य स्थानित्वान्नलोपो न स्यात् । प्रशान् । 'स्वरे धातुरनात् ।' अनात् उपधादीर्घत्वं न निवर्तत इति । प्रशामौ । प्रशान्भ्याम् । क्लीवे प्रशान् प्रशामी प्रशामि ।२।।
एवं प्रदान्-प्रतान् मुख्याः अनन्ता बहुव्रीहौ । स्त्रियामपि पुंवत् । यथा सुकर्मा सुकाणी सुकाणः । स्त्रिया वा डाप् स्यात् । तदा सुकर्मा इति श्रद्धावत् । अलोपता। मीप्रत्ययोऽपि । यथा बहुरोम्णीत्यपि ।
पान्ताः-पापलुप, - ०ब् पापलुपौ। पापलुप्सु। क्लीवे पापलुप, -०ब् पापलुपी पापलुम्पि ।२।
एवं गुहलिप-मन्त्रजप-मुख्याः ।
वि० अप स्त्रीलिङ्गो बहुवचनान्तः । 'अपश्च' इति घुटि दीर्घः। आपः, अपः। अद्भिः। अद्भयः।२। अपाम् । अप्सु ।शोभना आपो यत्र खाप्, स्वाद खापौ खापः। खापं खपः। खपा।खद्भ्याम् । खप्सु । हे खप, -० । क्लीबे स्वप्,-०ब् खपी । केऽपि क्लीबे वा दीर्घः । स्वम्पि स्वाम्पि।२।
एवं बह्वप्-सुव्यप्-मुख्याः ।
फान्ताः-अरितुफ् । अरितुप,-० अरितुफौ । अरितुभ्याम् । अरितुफ्सु । क्लीबे अरितुफ, -०ब् अरितुफी अरितुम्फि।
एवं मालागुम्फ-मुख्याः । एवं पुत्रचुम्ब् -मुख्याः बान्ताः । इदनुवन्धत्वादनुषङ्गलोपो नास्ति ।
भान्ताः-स्त्रीलिङ्गाः [ककुम्] ककुप,-०ब् ककुभौ । ककुभ्याम् । ककुप्सु।
एवं अनुष्टुभ् - तृष्टुभ् -मुख्याः ।
एवं त्रिलिङ्गाः- दृष्टककुम् । क्लीबे दृष्टककुप्,-०ब् दृष्टककुभी दृष्टककुम्भि ।२।
एवं कृतानुष्टुभ् - मुख्याः ।
वि० विदभ्नोति इति विदभ् । 'विरामव्यं.' 'हचतुर्थान्ते'त्यादिना दस्य धत्वम् । विधप्,-०० विदभौ। विधब्भ्याम् । विधप्सु।
गर्द्धभमाचष्टे इति गर्दभयतीति क्विप् गर्द्धभ् । गर्द्धप्, - ०ब् इत्यादि पूर्ववत् ।
मान्ताः यथा-प्राप्तशम् प्राप्तशमौ । प्राप्तशम्भ्याम् । क्लीवे प्राप्तशम् प्राप्तशमी प्राप्तशमि ।२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org