________________
२४
बालशिक्षा - तृतीयः स्यादिप्रक्रमः। पूषन् - पूषा पूषाणौ पूषणः । पूषणम् । 'पादमास' इत्यादिना शसादौ खरे वा पूष् । पूषः, पूष्णः । पूषा, पूष्णा । ङौ पूषि, पूष्णि, पूषणि। ___अर्यमन्- अर्यमा अर्यमणौ अर्यमणः। अर्यमणं अर्यम्णः । अर्यमभ्यामित्यादि।
पामन् सीमन् एतौ नान्तावेव स्त्रीलिङ्गौ । मूर्धन्वत् । मनन्तानाम्नः स्त्रियां ङी नी वा डा स्यात् । तदा पामा सीमा इति श्रद्धावत् । एवमन्येऽपि स्त्रियां मनन्ताः।
क्लीवाः-कर्मन् । कर्म कर्मणी कर्माणि । २। 'न सम्बुद्धौ ।' इति पृथक करणात् । नपुंसकस्य वा । हे कर्म हे कर्मन् ।
एवं पर्वन् - चर्मन्- मुख्याः । व-म-संयोगान्नान्ताः । वि० अहन् । 'विरामव्यं०' 'अहःसः।' अहः। अहोभ्याम् । अहःसु।
स्त्रीलिङ्गाः- अर्वन् अश्वः। अर्वा । 'अर्वनर्वन्तिरसावनञ् ।' इति अर्वन्तौ अर्वन्तः । इत्यादि श्रीमन्तवत् । स्त्रियां अर्वती। क्लीबे असाविति प्रतिषेधेऽपि न च तदुक्तमिति ग्रहणात् अर्वत् अर्वती अर्वन्ति । २। नजि अनन्- अनर्वा अनर्वाणी अनर्वाणः इत्यादि ।
सुखिन् शशिवत्। स्त्रियां सुखिनी। क्लीवे सुखि सुखिनी सुखीनि।२। एवं धनिन् - स्थायिन् -मुख्याः इनन्ताः ।
ब्रह्मन् वृत्रहन्वत् । स्त्रियां ब्रह्मघ्नी । क्लीवे ब्रह्मह ब्रह्मनी ब्रह्महणी ब्रह्महाणि । २।
एवं भ्रूणहन्-गोहन्- मुख्याः ।
धीवन् । अत्र ण (?) स्वरोऽघोषाद्वन्प्रत्ययात् स्त्रियामीप्रत्ययः । 'वनोरच' इति ओण । अवावरी। एवं स्त्रियां धीवन्-पीवन-विश्वदृश्वन - मुख्याः वन् प्रत्ययान्ताः। 'घोषवत्खरवन्प्रत्ययान्तासु स्त्रियामप्येवम् ।' स्त्रियामपि पुंवत् । यथा [सु]यज्वन् सहयुध्वन् राजयुध्वन् । सौयज्वा । सहयुध्वा।राजयुध्वा। ब्राह्मणी वाडाप् स्यात् । तथा आदन्तत्वे श्रद्धावत् ।
प्रतिदीव्यतीति 'राजि-तक्षि-धन्वि-प्रतिदिवि - यजिभ्यः कन् ।' प्रतिदिवन् । अलोपे 'नामिनो वोरकुर्छरोर्व्यञ्जने ।' इति दीर्घः। प्रतिदीनः। प्रतिदीना । दनस्तृतीयं प्रतीदीनः । उटम् लुप्तवद्भाव इहोपहन्ति ।
'शक्यः पुनारयितुं कथं वा दीर्घोऽतिपूर्वस्य विधीयमानः।'
प्रशाम्यतीति विपि पञ्चमोपधाया दीर्घत्वे 'मो नो धातोः।' इति मस्य सखरो नः । अस्य च लोपे प्रशान् । खरादेशः परि(र?)निमित्तकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org