SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ बाल शिक्षा - तृतीयः स्यादिप्रक्रमः । इत्यर्थः। 'न पादादौ चादियोगेच।' एषामादेशानां निषेधः। यथा-'अस्माकं पापनाशनः।' पुत्रो युष्माकं च पुत्रोऽस्माकं च । एवमादि । च वा ह अह एवम् गौणयोगे न स्यात् । ग्रामश्च ते स्वं नगरं च मे स्वम् । धान्ताः-विक्रुध् । पूर्ववत्। क्लीबे विक्रुत्,-०९ विक्रुधी विक्रुन्धि।२। एवं मृगविध -मर्माविधादयः। वि. ज्ञानबुध् । विरामव्यञ्जनाद् 'हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् ।' इति ज्ञानभुत्,-०द् ज्ञानबुधौ । ज्ञानभुद्भ्याम् । ज्ञानभुत्सु। नान्ताः पुंलिङ्गाः-आत्मा आत्मानौ आत्मानः। आत्मानं आत्मनः। आत्मना आत्मभ्यामित्यादि । हे आत्मन् । एवं मध्वन् - यज्वन् - अरमन् - श्लेष्मन् -मुख्याः । व-म-संयोगानान्ताः। ___ मूर्द्धन -अघुट् स्वरे । 'अव-म-संयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ।' मूर्ध्नः मूर्धा । 'ईङयो।' इति मूर्ध्नि, मूर्धनि । __ एवं पटिमन्-महिमन्-उक्षन् -तक्षन्-राजन् - मजन् - मुख्याः अवम-संयोगान्नान्ताः । तथापि राजन् अत्रालोपे 'तवर्गश्च-टवर्गयोगेचटवर्गाविति ।' नस्य अत्वे राज्ञः । राज्ञा । स्त्रियां राज्ञी। मजन् अत्राप्यलोपे 'त्रिषु व्यञ्जनेषु ।' इत्यादिना एकजकारलोपे नस्य अत्वे । मज्ञः। मज्ञा। _ 'श्वन्-युवन् -मघोनां च ।' इत्यघुट्खरे वस्योत्वे शुनः । शुना । स्त्रियां शुनी। .. युवन् - यूनः । यूना । स्त्रियां लोकोपचारात् युवतिरिति प्रसिद्धम् । परं यूनीत्यपि दृश्यते । तथा च शृङ्गारतिलकालङ्कारे । "भर्ता संगर एव मृत्युवसतिं प्राप्तः समं बन्धुभिः यूनी काममियं दुनोति च वधूवैधव्यदुःखान्मनः ।।' मघवन् -मघोनः । मघोना। स्त्रियां मघोनी। 'सौ च मघवान् मघवा वा।' इति सर्वत्र वा मघवन्त् श्रीमन्त्व त् ।। शशिन्-शशी शशिनौ । शशिना शशिभ्याम् । हे शशिन् । एवं वाजिन् - कञ्चकिन्-मुख्याः इनन्ताः । वृत्रहन्-वृत्रहा। हनोऽकारवतो णत्वम् । वृत्रहणौ वृत्रहणः। वृत्रहणम् । अघुटखरे अलोपे हस्य घत्वे। वृत्रन्नः। वृत्रना। ङौ वृत्रग्नि, वृत्रहणि। एवं गोत्रहन्- अहिहन् -मधुहन्-मुख्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy