________________
बालशिक्षा-तृतीयः स्यादिप्रक्रमः। तुभ्यं अतिमह्यम् । अतित्वभ्यं अतिमभ्यम् । अतित्वत् अतिमत् । अतितव अतिमम । अतित्वयोः अतिमयोः। सञोपसर्जनीभूतानामसर्वनामत्वात् सुरागमो नास्ति । अतित्वयां अतिमयाम् । अतित्वयि अतिमयि । अतित्वासु अतिमासु।
युवामतिक्रान्तः, आवामतिक्रान्तः, अतिक्रान्ती, अतिक्रान्ताः वा । द्वित्वेऽपि वर्तमानयोः युष्मदस्मदोर्न युवावी परत्वात् त्वं अहं यूयं वयं, तुभ्यं मह्यं, तव मम एते आदेशाः स्युः।युवावी अन्यत्र । अतित्वं अत्यहम् । अतियुवां अत्यावाम् । अतियूयं अतिवयम् । अतियुष्मान् अत्यस्मान् । अतियुवां अत्यावाम् । अतियुवान् अत्यावान् । अतियुवया अत्यावया। अतियुवाभ्यां अत्यावाभ्यामित्यादि । युष्मानतिक्रान्तः अस्मानतिक्रान्तः, अतिक्रान्ती, अतिक्रान्ताः वा। पूर्वलक्षणं पुनरद्वित्वे वर्तमानात् न युवावौ । अतित्वं अत्यहम्। अतियुष्मांअत्यस्माम्। अतियूयं अतिवयम् । अतियुष्मां अत्यस्माम् ।२। अतियुष्मान् अत्यस्मान् । अतियुष्मया अत्यस्मया। अतियुष्माभ्यां अत्यस्माभ्यामित्यादि। ___ 'युष्मदस्मदोः पदं पदात् षष्ठी-चतुर्थी-द्वितीयासु वस्नसौ।' परिशिष्याद् बहुत्वे । यथा-पुत्रो युष्माकं पुत्रोऽस्माकम् । पुत्रो वः पुत्रो नः। पुत्रो युष्मभ्यं पुत्रोऽस्मभ्यम् । पुत्रो वः पुत्रो नः। पुत्रो युष्मान् पुत्रोऽस्मान् । पुत्रो वः पुत्रो नः। 'वां नौ द्वित्वे ।' षष्ठ्यां ग्रामो युवयोः ग्राम आवयोः । ग्रामो वां, ग्रामो नौ । चतुर्थ्यां ग्रामो युवाभ्यां ग्राम आवाभ्याम् । ग्रामो वां ग्रामो नौ दीयते । द्वितीयायां ग्रामो युवां ग्रामो आवाम् । ग्रामो वां ग्रामो नौ पातु। 'त्वन्मदोरेकत्वे ते मे त्वा मा तु द्वितीयायाम् ।' पुत्रस्तव पुत्रो मम, पुत्रस्ते पुत्रो मे, पुत्रस्तुभ्यं पुत्रो मह्यम् , पुत्रस्ते पुत्रो मे दास्यति । पुत्रस्त्वां पुत्रो मां पुत्रस्त्वा पुत्रो मा पातु। तथा अत्र सूत्रे 'षष्ठी-चतुर्थी-द्वितीयासु।' इति व्युत्क्रमनिर्देशात् कचित् पञ्चमी-तृतीया-प्रथमास्वपि वस - नसादयः स्युः। यथा
'देहे विचरतस्तस्य लक्षणानि निबोध मे।' अत्र मम सकाशात् इत्यर्थः ।
'श्रुतं वश्चन्द्रगुप्तस्य भाषितं मनसा प्रियम् ।' अत्र वो युष्माभिरित्यर्थः।
'एकं दृष्ट्वा धनुः पाणिं मानुषं समुपस्थितम् ।
राक्षसं बलमुत्सृज्य किं वो भीता इव स्थिताः॥' अत्र वो यूयं इत्यर्थः । 'गायकेन विनीती वाम् ।' अत्र वां युवां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org