________________
बालशिक्षा- तृतीयः स्यादिप्रक्रमः। एवमुपमाने सिंहपाद्-उष्ट्रपाद्-मुख्याः । संख्यायां एकपाद्द्विपाद-मुख्याः । सुपूर्व सुपात्। कुम्भपद्यादीनां स्त्रियामेव पद्भावः । कुम्भपदी गाधपदी शूकरपदीत्यादि ।
अथ सर्वनामान्तर्गणस्तदादिः । यद्- 'त्यदादीनामविभक्तौ।' इति दस्य अत्वे सर्ववत् । यः यौ ये। स्त्रियां या ये याः। क्लीबे यत् ये यानि।२। अकि। यकः यकी यके। इत्यादि। स्त्रियां बहुलाधिकाराद् अकारस्य इकारो नास्ति । यका यके यकाः । इत्यादि । क्लीबे यकदित्यादि ।
एवं तद - 'तस्य च ।' इति सौ सत्वम् । सः तौ ते । स्त्रियां सा ते ताः। क्लीबे तत् ते तानि ।२। अकि सकः तकौ तके । स्त्रियां सका तके तकाः । क्लीबे तकदित्यादि।
एवं एतद्- एषः एतौ एते। स्त्रियां एषा एते एताः । क्लीवे एतत् एते एतानि । २। अकि एषकः एतकौ एतके । स्त्रियां एषिका एतिके एतिकाः। क्लीबे एतकदित्यादि । 'एतस्य चान्वादेशे द्वितीयायां चैन ।' अधिकारात टौसोश्च । एतं व्याकरणमध्यापय, अथो एनं वेदमध्यापय । इत्थमन्वादेशे एनं एनौ एनान् । एनेन । एनयोः। स्त्रियां श्रद्धावत् । क्लीबे द्वितीयायां एनत् एने एनानि । एनेन एनयोः । अकि साकोऽप्येनादेशः।
_ 'डान्ताः संख्यालिङ्गाः कत्यव्यययुष्मदस्मच । । इति अलिङ्गत्वाद् युष्मदस्मदोर्लिङ्गत्रयेऽपि प्रयुक्तयोस्तुल्यं रूपम् ।
युष्मद्-त्वं युवां यूयम् । त्वां युवां युष्मान् । त्वया युवाभ्यां युष्माभिः। तुभ्यं युवाभ्यां युष्मभ्यम् । त्वत् युवाभ्यां युष्मत् । तव युवयोः युष्माकम् । त्वयि युवयोः युष्मासु।
- अकि सविभत्त्यादेशे साकोप्यादेशः । त्वकं युवकां यूयकम् । त्वकां युष्मकान् । त्वयका युवकाभ्यां युष्मकाभिः । तुभ्यकं युवकाभ्यां युष्मकभ्यम् । त्वकत् युवकाभ्यां युष्मकत् । तवक युवकयोः युष्मकाकम् । त्वयकि युष्मकासु।
अस्मद् - अहं आवां वयम् । मां आवां अस्मान् । मया आवाभ्यां अस्माभिः। मह्यं आवाभ्यां अस्मभ्यम् । मत् आवाभ्यां अस्मत् । मम आवयोः अस्माकम्। मयि आवयोः अस्मासु । अकि युष्मद्वत् ।।
तथा एतौ अन्यपदार्थे - त्वामतिकान्तः, मामतिक्रान्तः, अतिक्रान्ती, अतिक्रान्ताःवा। अतित्वम् अत्यहम् । अतित्वां अतिमाम् । अतियूयं अतिवयम् । अतित्वाम् अतिमाम् । २। अतित्वान् अतिमान् । अतित्वया अतिमया । अतित्वाभ्यां अतिमाभ्याम् । अतित्वाभिः अतिमाभिः । अति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org