________________
बालशिक्षा- तृतीयः स्यादिप्रक्रमः। एवं अघवन्त् पचन्त् श्रीमन्त्वत् । किंतूदनुबन्धप्रत्ययाभावात् सौ न दीर्घः। पचन् । तथा
'तुदभादिभ्य ईकारे' न लोपो वास्तु शंतृङः।
शेषेभ्यः सर्वदा लोपो यन्ननन्तात् कदापि न ॥ इति भणनात् स्त्री-क्लीवयोरीकारे पचती। एवं शंतृङन्ताः । वि० तुदत् । स्त्री-क्लीवयोरीकारे तुदती । तुदन्ती । एवं भादयस्तुदादयश्च ।।
तथा 'प्सास्थाद्वा ।' इति परसूत्रेण प्साती । प्सान्ती । करिष्यती । करिष्यन्ती। • एवं स्यन्त्प्रत्ययान्ताः।
जुह्वन्त् - 'अभ्यस्तादन्तिरनकारः।' जुह्वत् जुह्वतौ जुह्वतः । जुह्वतं जुह्वतः। इत्यादि । स्त्रियां जुह्वती । क्लीबे जुत्,-०द् जुह्वती । वा नपुंसके जुह्वति, जुह्वन्ति ।२।
__ एवं जुहोत्यादि २४ । जक्षादि ५ । तथा चेक्रीयित लुकि पापचन्त्मुख्याश्च ।
अदन्त् - 'शेषेभ्यः सर्वदा लोप' इति स्त्री-क्लीवयोरीकारे अदती ।
एवं प्सा-भादि-जुहोत्यादि-जक्षादि-वर्ज अदादि - स्वादि - रुधादितदादि-त्र्यादीनां धातवः।।
महन्त्-महान महान्तौ महान्तः। महान्तं महतः। महतेत्यादि । हे महन् । स्त्रियां महती। क्लीबे महत्,-०दू महती महान्ति ।२।
थान्ताः - यथा तक्रमथ् । तक्रमत्,-०६ तक्रमथौ। तक्रमभ्याम् । तक्रमत्सु । क्लीबे तक्रमत्,-०द् तक्रमथी तक्रमन्थि । २।
दान्ता:-क्रव्यात् कव्याद् क्रव्यादौ । व्यायाम् । क्रव्यात्सु। एवं सुहृदाद्याः पुंलिङ्गाः। संपदाद्याः स्त्रीलिङ्गाः।
एवं त्रिलिङ्गाः-तत्त्वविद् । क्लीबे तत्त्ववित्,-०द् तत्त्वविदी तत्त्वविन्दि । २। ____एवं बहुसंपद्-प्रमुद्-काष्ठभिदादयः। व्याघ्रस्येव पदौ अस्येति बहुव्रीहावस्त्याद्युपमानसंख्यासुभ्यः पादस्य पाद्भावः । कुम्भपद्यादिषु च । व्याघ्रपात्,-० व्याघ्रपादौ व्याघ्रपादः । व्याघ्रपादम् । अघुट्खरे 'पात् पदं समासान्तः।' इति व्याघ्रपदः। व्याघ्रपदा । व्याघ्रपद्भ्याम् । व्याघ्रपात्सु । स्त्रियामप्येवम् । तदादिराकृतिगणत्वात् । पक्षे ईः। व्याघ्रपदीत्यपि । क्लीबे व्याघ्रपात्, व्याघ्रपाद् व्याघ्रपादी व्याघ्रपान्दि । २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org