SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - तृतीयः स्यादिप्रक्रमः । वि० किम् । 'किम् कः ।' कादेशे सर्ववत् । कः कौ के । स्त्रियां का के काः । क्लीबे किं के कानि । 'अकि सकोऽपि' कादेशः । २६ इदम् - पुंसि अयम् इमौ इमे । इमं इमान् । अनेन आभ्याम् एभिः । अस्मै । अस्मात् अस्य अनयोः एषाम् । अस्मिन् । एषु । स्त्रियां सौ इयकम् । अन्यत्र इसके इमकाः इत्यादि सर्वावत् । क्लीबे इदम् इमके इमकानि । २ । अकि सौ अयकम् । अन्यत्र इमकौ इमके इत्यादि सर्ववत् । अन्वादेशे द्वितीयायां टौसोश्च । एतदूवत् एनादेशः । अकि कोsपि नत्वम् । तूष्णीम् इत्यव्ययम् । यान्ताः - यथा अव्ययमाचष्टे इति अव्ययतीति अव्यय् अव्ययौ अव्यरभ्याम् । क्लीबे अव्यय् अव्ययी अव्यय । २ । रान्ताः - स्त्रीलिङ्गो द्वार् । द्वाः द्वारौ । विभक्तिव्यञ्जने रेफस्य विसर्गो न स्यादिति । द्वार्भ्याम् । 'भवति च' इति सुपि वा विसर्गादेशे द्वार्षु, द्वाःषु । एवं स्त्रीलिङ्गो वार । केऽपि क्लीवमिच्छन्ति । तदा वाः वारी वारि । २ । गिर् । 'विरामव्यं ०' 'इरुरोरीरूरौ ।' गीः गिरौ । गीर्भ्याम् । गीर्षु, गीःषु, गीष्षु । एवं धुर् । धूः धुरौ धुरः । धुर्भ्याम् । एवं पुर्-त्वर् - मुख्याः । त्रिलिङ्गाः - सुगिर गिवत् । क्लीबे सुगीः सुगिरी सुगिरि । २ । एवं धृतधुर् जितपुर् - मुख्याः । लान्ताः - विमलमाचष्टे इतीन् । विमलयतीति । विमल विमलौ । विमल्भ्याम् । क्लीबे विमल विमली विमलि । २ । एवं धवलू - उज्ज्वल - पठितहल् - मुख्याः । - वान्ताः - यथा कृतो वकारो येन । कृतव् कृतवौ । कृतवृभ्याम् । क्लीबे कृतव् कृतवी कृतवि । २ । वि० स्त्रीलिङ्गो दिव । द्यौः दिवौ दिवः । द्याम्, दिवम् दिवः । दिवा । 'दिव उद् व्यञ्जने । द्युभ्याम् । द्युषु । एवं त्रिलिङ्गाः । सुदिव । क्लीवे 'विरामव्यञ्जनादावुक्तं । नपुंसकात् स्वमोर्लोपेsपि ।' इति वचनादुक्तम् । सुद्यु सुदिवी सुदिवि । २ । एवं अतिदिव - विमलदिव - मुख्याः । शान्ताः - यथा विश् पुमान् । विटू, विड् विशौ । विड्भ्याम् । विट्सु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy