________________
बालशिक्षा- तृतीयः स्यादिप्रक्रमः। एवं सुवाच्-लिग्धत्वच-मुख्याः ।
वि० मूलवृश्च- आदिलोपे इजादित्वात् 'हशषच्छान्ते।' इत्यादिना चस्य गत्वबाधकं डत्वम् । मूलवृट् मूलवृश्चौ । मूलवृड्भ्याम् । मूलवृट्सु । क्लीबे मूलवृट् मूलवृश्ची मूलवृश्चि । २।
सुकुन्- अत्र 'अक्रुश्चेत्।' इति ज्ञापकात् क्तावनुषङ्गलोपो नास्ति । 'चवर्गहगादीनां च ।' इति सिद्धे वर्गग्रहणबलान्नित्यमपि संयोगान्तलोपं बाधित्वा अ-युज् - क्रुञ्चां प्रागेव गत्वम् । अनुखारो 'वर्गे वर्गान्तः।' अन्तलोपे सुक्रुङ् सुक्रुश्चौ सुक्रुश्चः। सुक्रुश्चम् सुक्रुश्चौ । अक्रुश्चेदिति वर्जनादनुषङ्गलोपो नास्ति । सुक्रुश्चः। सुक्रुश्चा। सुक्रुझ्याम्। सुक्रुङ्सु । क्लीवे सुक्रुङ् सुक्रुश्ची सुक्रुश्चि । २।।
. अञ्च गतिपूजनयोः। प्रत्यश्चतीति कि । 'अञ्चेरलोपः पूर्वस्य च दीर्घः।' इति ज्ञापकात् क्तावनुषङ्गलोपो नास्ति । प्रत्यन्-प्रत्यङ् प्रत्यञ्चौ प्रत्यश्चः । प्रत्यश्चम् । अघुट्खरे 'अश्वेरलोपः पूर्वस्य च दीर्घः।' इत्यलोपे 'निमित्ताभावे' इत्यादिना यत्वस्य इत्वे दीर्घत्वे च, अघुट्स्वरव्यञ्जनयोरनुषङ्गलोपे च प्रतीचः । प्रतीचा। प्रत्यग्भ्याम् । प्रत्यक्षु। स्त्रियां प्रतीची । क्लीवे प्रत्यक्,-ग् प्रतीची प्रत्यश्चि । २।
पूजायां तु शसादौ अञ्चेरनचीनऽनुषङ्गालोपोऽलोपश्च । प्रत्यञ्चः। प्रत्यश्वा । प्रत्यङ्भ्याम् । प्रत्यङ्सु । स्त्रियां प्रत्यञ्ची । क्लीबे प्रत्यङ् प्रत्यश्ची प्रत्यश्चि । २।
एवं प्राञ्- अपाञ्च-दध्यञ्च् - मध्वञ्च - सध्य-सम्यञ्-विष्वव्यञ्च - देवव्यञ्च-सर्वत्र्यञ्च-तत्र्यन्-यत्र्य-अदसस्तु चतुर्की - अदमुयञ्च-अमुयञ्च - अमुमुयञ्च - अत्र्यञ्च-तिर्यञ्च-गवाञ्च-गोञ्- गोअञ्च् - दृषदञ्च-योषिद-मुख्याः । एषामघुट् स्वरे। वि० अदमुयन् । अत्रालोपे यत्वस्य इत्वस्य (इत्वे?) दीर्घत्वे च, पूर्वस्य चत्वं केचिदिच्छन्ति । अदमुईचः। अदमुईचा। अदश्चीचा । इत्यादि।
एवं अमुमुयन् । तिर्यन्-तिर्यङ् । तिरीश्चिः । तिरश्चः। तिरश्चा। पूजायां तु तिर्यश्चः। तिर्यश्चा ।
उदङ् उदीचिः। उदीचः । उदीचा । पूजायां उदश्चः । उदश्चा।
गवाञ्च् गो गोअञ्च । एषामलोपे तुल्यं रूपम् । गोचः । गोचे। इत्यादि । पूजायां गवाञ्चः। गवाचा । गोञ्चः। गोञ्चा । गोअञ्चः । गोअश्चा।
दृषदञ्च् दृषदश्चः । दृषदञ्चा । एवं योषिदश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org