________________
बालशिक्षा-तृतीयः स्यादिप्रक्रमः । - ओदन्ताः-पुंस्त्रीलिङ्गो गो-शब्दः। गौः गावौ गावः। गाम्। गाः। गवा । गवे। गोगवोः । गवाम् । गावि । गोषु । अन्यपदार्थे यथा-चित्रा गावो यस्येति 'गोरप्रधानस्य।' इत्यादिना चित्रगुरिति वचनात् सुवसुवत्। ___वर्गवाची स्त्रीलिङ्गो द्यो-शब्दः । गोरौ धुटि ।' इत्यत्र गो इत्योकारोपलक्षणम् । तेन गो-शब्दवत् ॥ ७॥
औदन्ताः-पुंलिङ्गश्चन्द्रवाची ग्लो-शब्दः । ग्लोः ग्लावी ग्लावः। इत्यादि । स्त्रीलिङ्गो नौ - शब्दः । एतावन्यपदार्थेऽप्येवम् । शोभना नौर्यस्या यस्य वा। सुनौः । इत्यादि । क्लीवे हखत्वे सुनु वसुवत् । टादी खरे पुंवद्वा । सुनुना सुनवा । इत्यादि । एवमन्येऽपि ॥ ७॥
॥ इति स्यादिप्रक्रमे प्रथमः स्वरान्ताधिकारः ॥ व्यञ्जनान्तानां पुस्त्रियोः क्लीवे टादौ तुल्यं रूपम् । कान्ताः यथाचक तृप्तौ। सुष्टु चकते सुचक । सुचक् सुचम्, सुचकौ । सुचग्भ्याम् । सुचक्षु। क्लीवे सुचक् सुचग, सुचकी सुचति । २।। मनाक अव्ययः।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ 'अव्ययाच्च। इति सर्वत्र विभक्तिलोपे प्रथमतृतीयौ मनाक मनाए । एवं अन्वक्-पृथक- विष्वगादयः॥७॥
चित्रलिख - मुख्याः वान्ताः । सुकग-मुख्या गान्ताः। देवश्लाघमुख्या घान्ताश्व सुचवत् ।
वि० सुवल्ग् । सुवल्ग । सुवल्गौ। सुवल्ग्भ्याम् । क्लीबे सुवल्ग सुवल्गी सुवल्गि।२॥७॥ : डान्ताः-यथा दृष्टो डकारो थेन सः दृष्टड्। दृष्टडौ । दृष्टट्सु। क्लीबे दृष्टड् दृष्टडी । अधुडन्तत्वात् नुर्नास्ति । दृष्टडि ।२।
चान्ताः- अम्बुमुच् मेघः। 'चवर्गहगादीनांच।' इति गत्वम् । अम्बुमुकू अम्बुमुग । अम्बुमुचौ । अम्वुमुग्भ्याम् । अम्बुमुक्षु ।
एवं जलमुचादयः पुंलिङ्गाः।
वाच्-स्वच्-ऋच्-रुच्-स्फिच्-शुच्- मुख्याः स्त्रीलिङ्गाः । स्फिच घुण्टिकावाची।
एवं त्रिलिङ्गः-सत्यवाक । क्लीवे सत्यवाक्, सत्यवार सत्यवाची सत्यवाश्चि । २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org