________________
शर्ववर्माचार्यप्रणीत
प्रथमेऽध्याये चतुर्थः पादः। वर्गप्रथमाः पदान्ताः खरघोषवत्सु तृतीयान् ।' पश्चमे पञ्चमांस्तृतीयान्न वा। वर्गप्रथमेभ्यः शकारः स्वर - य-व-र-परश्छकारं न वा। तेभ्य एव हकारः पूर्वचतुर्थं न वा। पररूपं तकारो ल-च-ट-वर्गेषु ।' चं शे। ङ-ण-ना हखोपधाः खरे द्विः। नोऽन्तश्च-छयोः शकारमनु. खारपूर्वम् । ट-ठयोः षकारम् । त-थयोः सकारम् ।” ले लम् ।" ज-झ-अ-शकारेषु अकारम् । शिन्चौ वा। ड-ढ - ण परस्तु णकारम्। मोऽनुस्वारं व्यञ्जने।" वर्गे तद्वर्गपञ्चमं वा।६-- इति चतुर्थः पादः ।
प्रथमेऽध्याये पञ्चमः पादः। विसर्जनीयश्चे छ वा शम्। टे ठे वा षम् । ते थे वा सम् । क-खयोर्जिह्वामूलीयं न वा। प-फयोरुपध्मानीयं न वा। शेषे से वा वा पररूपम् । उमकारयोर्मध्ये। अघोषवतोश्च । अपरो लोप्योऽन्यखरे यं वा। आ-भोभ्यामेवमेव स्वरे । घोषवति लोपम् ।" नामिपरो रम्। घोषवत्खरपरः।३ रप्रकृतिरनामिपरोऽपि। एष-सपरो व्यञ्जने लोप्यः। न विसर्जनीयलोपे पुनः सन्धिः ।१६ रो रे लोपं स्वरश्च पूर्वी दीर्घः। द्विर्भावं वरपरच्छकारः। - इति पञ्चमः पादः । समाप्तश्च प्रथमोऽध्यायः।
द्वितीयं नाम्निचतुष्टयप्रकरणम् ।
द्वितीयेऽध्याये प्रथमः पादः । धातुविभक्तिवर्जमर्थवल्लिङ्गम् । तस्मात्परा विभक्तयः । पञ्चादौ घुट् । जस्-शसौ नपुंसके। आमन्त्रिते सिः संबुद्धिः। आगम उदनुबन्धः खरादन्त्यात्परः। तृतीयादौ तु परादिः। इदुदग्निः। ईदूत् स्याख्यौ नदी। आ श्रद्वा । अन्त्यात्पूर्व उपधा।" व्यञ्जनान्नोऽनु षङ्गः। धुड् व्यञ्जनमनन्तःस्थानुनासिकम् । अकारो दीर्घ घोषवति। जसि।५ शसि सस्य च नः। अकारे लोपम् । भिसैसू वा।"धुटि बहुत्वे त्वे । ओसि च ।° उसिरात् ।" ङस् स्य ।२२ इन टा। उर्यः।२४ स्मै सर्वनाम्नः।२५ ङसिः स्मात् ।६ ङिः स्मिन् । विभाष्येते पूर्वादेः।२८ सुरामि सर्वतः। जस् सर्व इः। अल्पादेर्वा । द्वन्द्वस्थाच । नान्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org