________________
बालशिक्षा-अष्टमः त्यादिप्रक्रमः। यणि हस्त्यते । पाद्यते। । 'श्वेताश्वाश्वतरगालोडिताबरकाणामश्व-तरे-त-कलोपश्च', चका रादिनिडन । श्वेताश्वमाचष्टे तेनातिकामति वा श्वेतयते । अश्वतरमा चष्टे अश्वयते । एवं गालोडयते आह्वरयते । बहुलत्वादिन्नपि, श्वेतय तीत्यादि।
'मन्तु-वन्तु-विना लुग् च', इनिडिह न स्मयते, ईशनमीट् किए इंडस्यास्तीति मन्तुप्रत्ययः, ततः ईण्मन्तमाचष्टे इतीति कृते मन्तोलक 'निमित्ताभावे' इत्यादिना प्रकृतेरेव रूपे स्थिते ईशयति। एवं गोमन्तमा चष्टे गवयति । शुग्वन्तमाचष्टे शुचयति । स्रग्विणमाचष्टे स्रजयति ।
'प्रशस्यस्य श्रः, वृद्धस्य च ज्यः', चकारात् प्रशस्यस्य ज्यादेशः प्रशस्यमाचष्टे श्रापयति, ज्यापयति । वृद्धमाचष्टे ज्यापयति । 'एकखरा णामदन्तानां चेत्यापागमः ।
'अन्तिक- बाढयोर्नेदसाधौ।' अन्तिकमाचष्टे नेदयति । बाढमा चष्टे साधयति।
'युवाल्पयोः कन् वा।' युवानमाचष्टे कनयति युवयति । अल्पमा चष्टे कनयति अल्पयति ।
स्थूल-दूर-युव-क्षिप्र-क्षुद्राणामन्तस्थादर्लोपो गुणश्च।' स्थूलमा चष्टे स्थवयति । एवं दूर दवयति । युवन् यवयति । क्षिप्र क्षेपयति क्षुद्र क्षोदयति।
'बहोर्यादिर्भू च', बहु भूययति ।
'प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घहखवृद्धवृन्दारकाणां प्रस्थस्फ वरगरबंहत्रेपद्राघहसवर्षवृन्दाः।' प्रियमाचष्टे प्रापयति । एवं स्थिर स्थापयति । स्फिर स्फापयति । अरु वरयति । गुरु गरयति । बहुल बंहयति । तृप्र त्रेपयति । दीर्घ द्राघयति । हृख हसयति । वृद्ध वर्षयति । वृन्दारक वृन्दयति ।
'तद्वदिष्ठेमेयःसु बहुलम्', तस्मिन्निव तद्वत् , इनीवेत्यर्थः, इत्यादि पूर्वोक्तम् । इनि यत्कृतं तदिष्ठ-इमन्-ईयःस्खपि भवति । यथा पटुः माचष्टे 'अन्त्यस्वरादिलोपे' पटयति । अयमेषामतिशयेन पटुः पटिष्ठः । पटोर्भावः पटिमा । अयमनयोरतिशयेन पटुः पटीयान् । इत्थमन्त्यस्व. रादिलोपे मन्त्वादि लुक, 'प्रशस्यस्य श्रः' इत्याद्यादेशश्च सर्वमेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org