________________
१०२
बालशिक्षा-अष्टमः त्यादिप्रक्रमः । ऋत ईदन्तश्विचेक्रीयितयिन्नायिषु, पित्रीयति ।
ओतो यिन्नायी खरवत्, औतश्च, गव्यति नाव्यति ।
नलोपश्च, विद्वस्यति, राजीयति, पथीयति । पुंस्यतीति नियमः किम् ? दीव्यतीत्यादि । कथं चतुर्यति, अनडुह्यति, गीर्यति, धूर्यति, शब्दाश्रयत्वाद्धि नियमः । सर्पिष्यति, धनुष्यति, षत्वं स्यादेव । . आयिर्यथा-हंस इवाचरति हंसायते। हंसायाश्चक्रे । अहंसायिष्ट। हंसायिता । हंसाय्यते । अहंसायि । जिहंसायिषते । हंसायमानः । वा आयेश्च लोपः। 'आद्यन्ताचे'त्यन्तग्रहणादायिलोपे न तल्लक्षणमात्मनेपदम् । हंसति । हंसाञ्चकार । हंसिता । हंसन् ।
एवं मालेवाचरति मालायते, मालाति । मालिता। मालान् ।
नामि व्यजनान्तादायेरादेः, अग्नीयते, अग्नयति । विभूयते । विभवति ।
ऋत ईदन्तः, पित्रीयते पितरि (ति?)। रैयते रायति । गव्यते गवति । नाव्यते नावति । विधुरर्कति, चन्दनमनलति, मित्राणि रिपवन्ति, “वफ्रे वेधसि, विधुरे चेतसि विपरीतानि भवन्ति” इत्यादिप्रयोगाश्च दृश्यन्ते । 'न लोपश्चेति विद्वस्यते इत्यादि पूर्ववत् । ओजायते, अप्सरायते, पयायते, पयस्यते ।
ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया । . आयिलोपश्च विज्ञेयो न चाश्वो गर्दभत्यपि ॥
भाषितपुंस्कं पुंवदायौ, ब्राह्मणीवाचरति ब्राह्मणायते । विदुषी. वाचरति विद्वस्यते।
काम्य यथा-पुत्रमिच्छति पुत्रकाम्यति । पुत्रकामाश्चकार । पुत्रकामिता।
इन् यथा- 'इनि लिङ्गस्यानेकाक्षरस्यान्त्यखरादेर्लोपः।' गृह्णात्यर्थेहलिं गृह्णाति हलयति । कलयति । 'हलि-कल्योरत्', अजहलत् , अचकलत् । वर्णयति । त्वचयति ।
तत्करोति तदाचष्टे, मुण्डं करोति मुण्डयति । मिश्रयति । 'रशब्द ऋतो लघोळञ्जनादेः', पृथु प्रथयतीत्यादि ।
इनिड् अङ्गनिरसनेऽपि, हस्तौ निरस्यति पादौ निरस्यति हस्तयते पादयते । इनिडोपि कारितसंज्ञकत्वात् 'कारितस्यानामिड् विकरणे इति कारितलोपो भवत्येव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org|