SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०१ ... बालशिक्षा-अष्टमः त्यादिप्रक्रमः । भक्ष्यार्थी । अपस्किरते श्वा निवासार्थी । अपाचतुष्पाच्छकुनिषु हृष्टभक्ष्य-निवासार्थेषु किरतेः सुडागमः। गृ निगरणे । 'वा खरे लत्वम्', गिरति, गिलति। 'मिडी'त्यादिना नित्यमिट् , जिगरिषति । निजेगिल्यते । रु० 'अवाद्गिर', अवगिरते। 'समः प्रतिज्ञायाम्', शतं संगिरते । अङ्गीकरोतीत्यर्थः । ज्यादौ-गृ शब्दे । गृणाति । जिगरिषति, जिगीर्षति। जेगीर्यते। पृ। पृणाति । पोपूर्यते । पूर्यते । पूर्तः। दें। दृणाति । दरयति । भयादन्यत्र विदारयति । स्तृञ् । स्तृणाति । स्तृणीते । अस्तृणीत । अतस्तरत् । वृञ् । वृणाति । वृणीते । वूर्णः। इति ऋदन्ताः । इति त्यादिप्रक्रमे पञ्चमः खराधिकारः। यिन् आयि काम्य इन्-एते चत्वारः प्रत्ययाः। अथ तदन्ता नामधातवः कथ्यन्ते । यिन् यथा-'यज्ञवर्णस्ये'तीकारः । आत्मेच्छायाम्घटमिच्छति घटमिवाचरति इत्यर्थे घटीयति। घटीयाञ्चकार। अघटीयीत्। घटीयिता। घटीय्यते । अघटीयि । घटीयन् । जिघटीयिषति । .. एवं पुत्रीयति । 'नामधातोराद्यस्य द्वितीयस्य तृतीयस्य क्रमेण युगपद्वा', पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति, पुपुतित्रीयियिषति । अश्वीयति । 'कचिद् द्वितीय-तृतीययोरिति अशिश्वीयिषति, अश्वीयियिषति । इन्द्रीयति । ऐन्द्रीयीत् । इन्दिद्रीयिषति । अशनायोदन्यधनाया बुभुक्षापिपासाकांक्षासु निपाता रूढाः । अशनमिच्छति भोक्तुम्, अशनायति । उदकमिच्छति पातुम्, उदन्यति। धनमिच्छति तृष्णक् धनायति । अन्यत्र अशनमिच्छति दातुम् , अशनीयति । उदकमिच्छति लातुम्, उदकीयति । धनमिच्छति दातुम्, धनीयति। मालामिच्छति मालीयति । 'नाम्यन्तानां यणायियित्नाशीश्चिवचेक्रीयितेषु ये दीर्घः',अग्नीयति पटूयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy