SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ૭૨ शुशुभिरे जिनराजमुनीश्वराः खरतराह्वगणा दिवाकराः । तदनुभूरिगुणा जयसागरा जगति रेजुरनुत्तमपाठकाः ॥ ७ ॥ तेषां शिष्या मुख्या दक्षा आसन्नदुष्य गुणलक्ष्याः । श्री रत्नचन्द्रनामोपाध्यायाः साधुपरिधायाः ॥ ८ ॥ तत्पट्टस्फुटपद्मप्रकाशनोदारसूरसङ्काशाः । श्रीभक्तिलाभनामोपाध्यायाः शास्त्रकर्त्तारः ॥ ॥ ९॥ धीमन्तोऽन्तिषदस्तेषां कलाकौशलपेशलाः । समजायत राजन्तो ग्रन्थार्थाम्भोधिपारगाः ॥ १० ॥ चारित्रसारपाठक - भावाकर - सद्गुणीश्वरा दक्षाः । श्री चारुचन्द्र-वाचकधुर्याः स्मार्या मुनीशानाम् ॥ ११॥ तेषां क्रमशः पट्टव्योमाङ्कणशीतरश्मिसङ्काशाः । श्री भानुमेरु - वाचक - जीवकलश - कनककलशाह्वाः ॥१२॥ तत्र चारित्रसारख्या उपाध्याया महाशयाः । बभूवुः श्रुतपाथोधपारीणाः साधुवृत्तयः || १३ || तत्पट्टे समभूवन् विलसत्संवेगरङ्ग सँल्लीनाः । वाचकपदप्रधानाः श्रीमन्तो भानुमेर्वाह्नाः ॥ १४ ॥ * * * जयन्ति क्ष्मायां समय कथितज्ञानविमलाश्चिरं चञ्चत्पाठकपदवरा ज्ञानविमलाः । लसत्तत्पट्टे वचनरचनारञ्जितजना महावादिव्राजप्रमितिकथनावाप्तविजयाः ॥ १६ ॥ वैराग्यरससॅल्लीना तद्गुरुभ्रातरोऽधुना । विजयन्ते महान्तस्तेजोरगणीश्वराः ॥ १७ ॥ तेषां जयन्ति जयिनः सुनया विनेयाः Jain Education International * For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy