________________
४७
ये आचार्य बहुत अच्छे विद्वान और प्रतिष्ठित हो गये हैं । ये खरतरगच्छ की आचार्य परंपरा के ५६ वे पट्ट-घर-मुख्य शाखा के प्र. धान-आचार्य थे। इन के विषय में खरतरगच्छ की पट्टावलि-जो १९ वीं शताब्दी के अन्त में, बीकानेर ( राजपूताना ) के यति क्षमाकल्याणकजी ने बनाई है-में इस प्रकार लिखा है। ___" तत्पट्टे श्रीजिनभद्रसूरयः । तत्प्रबन्धो यथा-प्रथमं सं० १४६१ वर्षे सागरचन्द्राचार्येण श्रीजिनराजसूरिपट्टे श्रीजिनवर्द्धनसूरिः स्थापित आसीत् । स चैकदा जेसलमेरुदुर्गे श्रीचिन्तामणिपार्श्वदेवगृहे मूलनाय. कपार्श्वे स्थितां क्षेत्रपालमूर्ति विलोक्य स्वामिसेवकयोस्तुल्यस्थानेऽवस्थानमयुक्तमिति विचिन्त्य च क्षेत्रपालमूर्ति तत उत्पाट्य द्वारे स्थापितवान् । ततः कुपितः क्षेत्रपालो यत्र तत्र गुरूणां चतुर्थवतभंगं दर्शयामास । अनया रीत्या एकदा [ सूरयः ] चित्रकूटे समागतास्तत्रापि देवेन तथैव कृतम् । ततः सर्वेऽपि श्रावकाश्चतुर्यव्रतभङ्ग ज्ञात्वाऽयं पूज्यः पदयोग्यो नेति कथयामासुः । अथ वर्द्धमान(वर्द्धन)सूरयो व्यन्तरप्रयोगतो अथिलीभूताः सन्तः पिप्पलकग्रामे गत्वा स्थिताः, कियन्तः शिष्याः पार्थे स्थितवन्तः । अथ पश्चात् सागरचन्द्राचार्यप्रमुखसमस्तसाधुवर्गेण एकत्रीभूय गच्छस्थितिरक्षणार्थ नवीन आचार्यः स्थाप्य इति विचारं कृत्वा, एकं नवीनं क्षेत्रपालमाराध्य तं च सर्वदेशेषु सम्प्रेष्य, " यद् यूयं करिष्यध्व तदस्माकं प्रमाणम्" इति समस्तखरतरगच्छीयसंघस्य हस्ताक्षराणि आनाय्य सर्वसाधुमण्डली संमील्य, भाणसोलग्रामे आजग्मे । तत्र श्रीजिनराजसूरिभिरेकः स्वशिष्यो वाचकशीलचन्द्रगणिपार्चे अध्यापनाय रक्षितोऽभूत् । स चाधीतसकलसिद्धान्तार्थो भणशालिकगोत्रीयो भारो इति मूलनामा सं० १४६१ [वर्षे ] गृहीतदीक्षः क्रमेण पञ्चविंशतिवर्षाणो जातः । तं च योग्यं ज्ञात्वा श्रीसागरचन्द्राचार्यः सप्त भकाराक्षराणि संमील्य सं० १४७५ [ वर्षे ] माघसुदिपूर्णि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org