________________
किल निविडब्रीडास्पदनिजविभूतिविभावनोद्भवत्तीव्रतरतापप्रसरतया जलाश्रयेष्वजस्रं विहितसदनानि समस्तान्यपि पङ्कजवनानि । ये च षड्तर्कसम्पर्ककर्कशमतिं प्रागल्भीसमुद्भाविताद्भुतविविक्तयुक्तिपरंपरापरिचयचारुवचश्चातुरीवशसकलजनसमक्षविनिर्जितानेकस्थानस्थाननिरवद्यविद्यामदामन्दवदावदवादिवृन्दनिरन्तरपरिस्फुरन्निविडान्तस्तापततोच्छलदतुच्छोच्छ्वाशानिलप्रबलितप्रतापानलकवलितसकलविपक्षकाङ्कितकक्षतया समुद्भुतप्रभूतजगदसम्भववैभवव्यतिकराः ।
तान्, शरच्चन्द्रचन्द्रिकाधवलगुणग्रामग्रथितयशःश्वेतात्पत्रविराजमानान् , सन्मण्डलविलसदाझैश्वर्यप्रधानान् , चारुचारित्रचक्रवर्तिस्वगुरुक. ल्याणपट्टप्राप्तप्रतिष्ठान्, अषणक्षमाभारोवहनैकनिष्ठान्, '* * * * सकलजीवलोकतापकृत्क्रोधादिचरटोच्चाटनैकरतान् , अमिततमगौरवप्रासादपर्यन्तभूमिकावस्थितान्, अगण्यपुण्यपरिणातसहचरीसमालिङ्गितमूर्तीन्, परलोकसाधनाद्भुततेजः परिस्फूर्तीन् , सर्वत्र प्रवर्तितत्रिकरणशुद्धव्यापारमनोहरान् , सदा सन्निहितसाधुकुञ्जरान् , निरस्तसमस्तदर्शनविवादान् , सुगृहीतनामधेयपूज्यराजश्रीभानुप्रभम्ररिपादान् , वडउद्ग्रामात् प्रभाचन्द्रगणिः समस्तसाधुसहितः क्षोणीतलमिलन्मौलिमण्डलः, संयोजित. करकुड्मलः, प्रवर्द्धमानबहुमानविस्तारिणीम् , निर्व्याजविनयमनोहारिणीम् , अमन्दामन्दरसोल्लासव्यक्तिम्, सद्भूतभक्तिम् , महाकल्लोलिनीम् , हृदयस्थलवाहिनीम् , नित्यमादधानः; अकुण्ठोत्कण्ठारसबन्धुराम् , निरूपमादरमेदुराम् , समुद्भवददभ्रसम्भ्रमभराम , प्रतिपत्तिसम्पत्तिनिर्भराम् , त्रिचतुरावर्तवन्दनां विधाय विज्ञपति ॥
१ पत्र के एक किनारे का कुछ भाग टूट जाने से कितनेक वाक्य चले गये हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org