________________
प्राच्यैः पुण्यैः फलितमतुलैस्तावकीनैः सुलब्धं
जन्मतत्ते नभसि च गति विनी ते कृतार्था ॥ १२१ ॥ अंत के १० काव्यों में कवि चन्द्र से गच्छपति के पास जाने की और अपनी विज्ञप्ति के कहने का स्वरूप बताता है और कहता है कि
स्थित्वा तस्माद्विजनसमये श्रीगुरोः पादप
स्पृष्ट्वा स्वच्छैहिमकरकरैर्विज्ञ ! विज्ञप्यमेवम् । शिष्योऽणीयान् विनयविजयो द्वादशावर्तभाजा
विज्ञप्ति व्याहरति महता वन्दनेनाभिवन्ध ! ॥ १२६ ॥ यच्छ्रीपूज्यक्रमयुगमिलादूर्गमध्ये नतोऽहं
प्रागासं नोपकृतिमिव तद्विस्मरामि क्षणार्द्धम् । श्रीतातानां तदुरुकृपया भाषणं स्मर्यमाणं
सर्वाङ्गीणं सपदि पुलकोद्भेदमाविष्करोति ॥ १२७ ॥ तुष्यत्युल्लासयति करणान्युल्लसन्त्येव भूयो __ भूयो गच्छत्युपगुरुपदं गाढमुत्कण्ठते च । बाष्पाक्लिन्ने सृजति नयने गद्दान् कण्ठनादा
नेतच्चेतः प्रणयरसतश्चेष्टते नैकधा मे ॥ १२८ ॥ निद्रा दोषो जगति विदितो जागरश्चाप्रमादः
सम्प्रत्येतन्मम तु हृदये वैपरीत्येन भाति । निद्रां जाने गुणमनुगुणं दर्शनं वो ददानां
जागर्यां च प्रगुणमगुणं तत्र विप्नं सृजन्तीम् ॥ १२९ ॥ जागर्यायां जपति रसना युष्मदाख्यां यथा मे
निद्रायामप्युपहितमनास्त्वेन शश्वत्तथैव । तस्मात्सम्प्रत्यहनि निशि वा जागरानिद्रयोर्मे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org