SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ तृतीया वेणिः । ६१ षणापर्वभ्रमं दधार । तदयं सर्वजनीनो महान् पुण्यलाभः । तथौपैषीच्छ्रीमत्प्रसादितं लेखद्वयं, परिजग्मे च ततोऽवस्थानादिनैयत्यम् । पुनरपि यथावसरं स्वसुखावस्थानादिसमाचारसुधांशुव्यापारणेन प्रल्हादनीयो नश्चित्तसागरः सुगुरुभिः । तथा वयमितः प्रस्थातुकामा अपि कल्याणीभक्तिश्री समुदायोपरोधात्त प्रोघनावन्दापनोत्सुका अपि स्थिताः । अथाद्यश्वीनश्रीमम्मणवाहनीय - श्री फरीदपुरीय-सङ्घागमः संभाव्यमा नोऽस्ति । तदागतौ यद्योग्यताङ्कं भविष्यति तद्विधास्यतेऽवश्यम् । तथा saत्यो मेघराजगणि- सत्यरूचिगणि-प्रभृतियति - सा० नगराज - सा० हांसा - सा० हापा - ० भोजा-सा० पाहा - सा० मण्डलिकगोला - सा० रेला - द० भीमा - सा० आह्ना - सा०देपाल - सा०विधा - सा० जिणिया - सा० देवा - सं० रतन - सं० घुम्मण - सा०सहजा-सा० कान्हड - सा० मूला - सा • वस्तुपालसव्वालक्खा - सं० लद्धाप्रमुखो निखिलोऽपि त्रिवर्णः श्रीसङ्घः श्रीमत्पादपयोजन्मसु चिराञ्चञ्चरीकेलिं कलयतितमाम् । तथा - गाम्भीर्यालब्धमध्यो घृतसगुणमणिर्धीरतासानुमद्भिः सन्नद्धो मध्यमेघोज्ज्वलतरसलिलोल्लोलमालोत्सहिष्णुः । माद्यद्विद्यानदीनां घनरसरसितः श्रीधरोपासनीयः बोभूयेत श्रियाढ्यः सुगुरुजलनिधिः सूरिनीराशयेषु ॥ १ ॥ संसारसरसीसूर उरूराः सरसोरिसः । रसासारो रिरंसोऽरं सूरिः सूरि साररः ॥ २ ॥ सस्कल्याणघरः सुरागमधुरस्तारोदयानुत्तरः सद्रत्नोपलसद्विभूतिरुचिरो गौरश्रिया भास्वरः । Jain Education International ( द्विव्यञ्जनः । ) For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy