________________
..
विज्ञप्तित्रिवेण्यां
अहो ! भावस्य भव्यत्वं विस्त्यां विगताग्रहः । आर्जिजत्तीर्थकुल्लक्ष्मी श्रेणिकः पृथिवीमिव ॥ २२ ॥ दानं दुरितनाशाय शीलं सौभाग्यवर्द्धकम् । . तपः पङ्कविशोषाय भावना भवनाशिनी ॥ २३ ॥
तदमूनमूदृशो दानशीलतपोभावनाभेदान् परिपोषितस्वस्वसाम•न्नासीरतया परिस्फुरता चतुरङ्गचमभावेन व्यवस्थाप्य तैरेवाधष्यविपक्षपक्षक्षोभमुद्भावयन्ननिवारितनिजैश्वर्यकलया सपक्षानावर्जयन्नगणितस्वपरपक्षः सर्वत्र समदृष्टिरुदारचरितः सम्यक्त्वसामायिकश्वेतगजारूढः प्रौढश्रीः पर्वराजः श्रीजिनराजशासनराजधानीमध्युवासः । तदा चआशिषः स्थानेन वाऽस्माभिः श्रीकल्पवाचनाव्यापारयिषत् श्रीकालिकाचार्यकथाद्वयोपदेशव्यपदेशेन तत्तत्तदुत्पत्त्यादिव्यावर्णनं निर्णयद्भिश्च द्वारभट्टपटिमास्वात्मनि घटयांचक्रे च । सुश्राद्धमहाजनेन तु साङ्गतिकक्रमुकनालिकेरीविविधवर्णवर्णनीयवासःप्रदानसाराभिरेकादशकृत्वः प्रभावनोपदाभिरुपांस्थितश्चायं पर्वराजः । किं चात्र साधुमेहाक-सं॰जमश्रावको मासक्षपकौ, श्राद्धका तु द्वादशपक्षक्षपका, अष्टाहिकाकारिण्यस्त्वगारिण्यो गणनातीताः समपत्सत । एतच्च पर्वस्वरूपं पुराऽपि श्रीपूजेभ्यः प्राभृतीकृतमभूत्तथाऽप्यधुना स्थानाशून्यार्थं पुनरपि व्यज्ञपीति न पौनरुक्तमाशङ्कयम् । अथ सम्प्रति मिलितसर्वमहाजनो महाविस्तारस्फारो वाद्यदातोद्यस्तोमः पौषसितपञ्चम्यां श्रीनन्दिमहःसम्पन्नः, तत्र च श्रावकाश्चत्वारः, श्राविकास्तु चतुर्विंशति, संयताश्चत्रयः, सर्वविरतिवर्ज तत्तत्त. पश्चरणप्रमुखानभिग्रह विशेषान् परमयाऽहमहमिकया यथार्ह सर्वेऽप्याददिरे । तदा च ताम्बूलादिदानप्रधाना विश्वाश्चर्यकरी सा काचित्प्रभावना श्रावकैश्चक्राणा, ययापि सर्वः श्राद्धसङ्घो नाम सुतरां साधुवादाद्वैतवादी समवृतत् । अन्यो मुग्धलोकस्तु ताम्बुलादिप्राचुर्य दृष्ट्वा ह्यसमयेऽपि पर्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org