SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ तृतीया वेणिः। शीलबोहित्यमास्थाय भव्यास्तीर्णा भवार्णवम् ॥ १० ॥ न त्रातारो न दातारो योगिनो न न भोगिनः । शीलपालकलोकानामन्त्येिकां कलामपि ॥ ११ ॥ अन्तरङ्गद्विषद्वयूहं गलहस्तकदायकम् । तपः सुसाधुभिस्तप्तं निर्जराङ्गमकृत्रिमम् ॥ १२ ॥ विषमाण्यपि कर्माणि दुश्चीर्णानि कथंचन । तपस्तपनयोगेन क्षयं यान्त्यन्धकारवत् ॥ १३ ॥ प्रत्यूहव्यूहतो नाम लोको यथेष शङ्कते । नादधीत कथं कारं तपस्तद्ध्वंसमांसलम् ॥ १४ ॥ यदगम्यं यदुरापं दुःश्रद्धेयं च यद्भुवि । तदायासविनाभूता लभन्ते तपसा प्रियम् ॥ १५ ॥ दुष्कर्ममलसंस्पृष्टस्तावदात्मा न शुद्धयति । तपोऽमिना स्वर्णमिव न यावज्जातु तप्यते ॥ १६ ॥ यक्षरक्षःफणिव्याघ्रा न तानाक्रमितुं क्षमाः। सिद्धमन्त्रोपमे येषां तपस्यास्था सनातनी ॥ १७ ॥ तथा नरके नारकाः सन्ति सहन्ते दुःखमेव च । न तेषां भावना शुद्धा तस्माल्लाभो न किंचन ॥ १८॥ पुण्डरीकादिभिस्तैस्तैः श्रेष्ठकाहबतादपि । कर्मग्रन्थिस्रोटितो यद्भावना तत्र कारणम् ॥ १९ ॥ सुचिरादविवेकोऽपि कृताज्ञानतपा अपि । भावनातो नरः शुद्धयेत् तामलीवामलाशयः ॥ २० ॥ दानं शीलं तपस्तुण्डमुण्डनादि सुबह्वपि । अफलं स्नु हिशाखीव योका नहि भावना ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy