________________
५४
विज्ञप्तित्रिवेण्यां यः स्वैरिवैरिविलयाय सहः सहस्वी
स्वीयस्ववंशबहुलाम्बरशर्वरीशः। शश्वलल्लो वशविहाररसीह शील श्रेयोरहस्यसरसीरुहसूर एषः ॥ ६ ॥
(चतुरर्थमिदं । ) ये पञ्चवर्गपरिहारसमेतमेतत्
पञ्चाक्षनिग्रहपराः स्तवनं पठन्ति । ते ही चतुर्थपुरुषार्थसुखं लभन्ते
तद्बोधिलाभसुभगास्तु ममापि बुद्धिः ॥ ७॥ इति भगवन्तमभिष्टुत्य कृतकृत्येन सहैव सङ्केनानधीभवन्तो ऽथ गिरिगह्वरकूटसङ्कटान् मार्गान् दुर्गमानुलङ्घयन्तः, क्वापि पर्वतप्रदेशोमृताभिः सप्रत्ययाभिस्तमः कवलयन्तीभिज्वलन्तीभिरौषधिभिरतिभास्वरप्रदीपकलिकासाध्यं कर्म प्रत्यक्षयन्तः, पर्वतघट्टानतिक्रम्य पर्वतदेशमध्यगं नानाविधश्राद्धसङ्कलं श्रीकोठीपुराभिधमहानगरं प्रापिम । तत्र च देवार्यदेवपादा विधिवदभिवन्दिताः । तत्र च सं० सोमाकोऽवारितवाहनासारं सरसशर्कराचूर्णपूर्ण भोक्तृमनोमोदकं महामोदकं प्रचुरघृतपूरपक्वान्नसम्पन्नशाकप्रीणितरसिकलोकमिन्द्ररसास्वादमाद्यद्ररसज्ञरसनाविषयं स्तूपीभवदपूपं सुनिष्पन्नरूपं मुग्धस्निग्धदध्योदनजनितजनसमाधानं सुगन्धिशालि. परिमलोद्वारमात्राप्यायमानजनं प्रसर्पत्सर्पिर्द्धाराप्रवाहप्रवाहिताहितदौर्मनस्यं नानास्वाद्यपेयलेह्यखाद्यहृद्यं प्रकाश्यमानबहुविनयप्रकारं श्रीसाधर्मिकवात्सल्योपचारं सारं कारं कार तथा समस्तवास्तव्यवस्तुवित्तसार्थिकसअपुरुषेषु सम्पन्नचित्तरङ्गः सुरङ्गश्वङ्गवसनदानेन मनागस्खलितचित्तस्ता. म्बूलादिना च सचमत्कारं सत्कारं चकार तथा, यथा सार्वत्रिकी प्रशंसामाससाद; इत्यलं बहूक्त्या ?। तदेवं देववन्दनसावधामास्तत्रापि दिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org