________________
५२
विज्ञप्तित्रिवेण्यां
णाम कारं कारं कथञ्चित्तीर्थमहामोहप्रतिबन्धवशात्स्खलितपादप्रचारं क्षणं शून्या इव हृतहृदया इव ततः प्रस्थातुमुदयच्छाम । अथ च
ज्वालामुख्या जयन्त्या च श्रीमदम्बिकया तथा । वीरेण लङ्गडाख्येन यदसेवि सदैव हि ॥ १॥ संसारसागरोत्तारतीर्थात्तीर्थोत्तमात्ततः । श्रीमनगरकोटाख्यात्प्रस्थिताः सह सार्थिकैः ॥२॥
. (युग्मम् ।) अथ गिरिसरिदुपलशैलेलातले वहन्तः, एकतः किल ' पव्वउ- . खोट्टउ ' इति मृदुलघुशिशूनिव किञ्चिद्व्यक्तवाचा संशब्दनेन गिरिभूवि पथिकेभ्यो ह्यविश्वासशिक्षामाख्यान्त इव कांश्चन पक्षिणः पदे पदे प्रदक्षिणीबभूवांसः । अन्यतः पुनस्तत्प्रतिषिषेधयिषयेव कांश्चन विपश्चित इव 'होकोकिमइ, होकोकिमइ ' इति स्फुटप्रतिरावेण जगद्वैचित्र्यं प्रचिकटयिषून् विहगान् स्वात्मनि माध्यस्थ्याद्वैतमुत्तेजयन्तः शुश्रुवांसः । विस्मयस्मेरिताऽऽनन्दाटोपा गोपाचलपुरतीर्थ जग्मिवांसः। सं० घिरिराजकारितोत्तुङ्गप्रासादस्थं श्रीशान्तिनाथं सगौरवं च प्रणेमिवांसः । अत्र च देवसेवापराः सङ्घकृत्यानुमोदनासमाहितहृदः सदसद्विवेकं प्रतिवास्तव्यास्तिकांश्च कांश्चन प्रवीणयन्तः, पञ्चाहोरात्राणि तस्थिवांसः । अथ पारेविपाशस्थितं श्रीवीरस्वामिपादमहाप्रासादकलितं श्रीनन्दवनपुरं प्रापिवांसः। तत्र च पूज्यपूजां विधिवद्विधाय सह तत्रत्यसङ्घनाऽऽगन्तुकसङ्घोऽपि खल्वात्मानं धन्यममन्यत । तत्र च सुविहितगुणपक्षपातरसिकमनोभिरात्मकरणीयातिनन्दिभिः शुद्धमार्गाभिनन्दिभिः सौजन्यसम्भिन्नसर्वभावैः पार्वतिकभूपाललोकपालितवचोभिः सह स्वयूथ्यैरनुमितसंविमपाक्षिकपदस्थैर्भृशमजर्यमासोसूच्यामहिरूपम् । ततोऽपि प्रस्थाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org