________________
‘नानादेशविहारिणः खल्वपूर्वापूर्वस्थानदृश्वानो
का
ञ्चिदपूर्व्वमृतायमानां किंवदन्तीम् । परितोषय क्षणं पर्षदम् । " असावपि ' श्रूयतां महाभागाः । ' इत्यभिधाय सुधाकिरा गिरा भणितुमारभत ।
तथा च
" अस्त्युत्तरस्यां दिशि सञ्चितः श्रिया स्त्रीपुंसरत्नोत्कररोहणाचलः । देशस्त्रिगर्तोऽर्त्तिहरोऽधिवासिनां तीर्थैर्गरीयान चलैरिवात्र यः ॥१॥
तत्रापि पावनं तीर्थं श्रीसुशपुरे परम् । शरध्वन्यतां याति पुण्यैरेव हि देहिनाम् || २ || देवाधिदेवनाभेयादिमान्नत्वाऽऽलयस्थितान् ।
धापि परमानन्दप्राप्तं स्वं मन्यते बुधाः ॥ ३ ॥ तीर्थमनादियुगीनं वाङ्मनसागोचरप्रभावाढ्यम् । द्रष्ट दृष्टिभ्यां तैर्दृष्टव्यं जगति दृष्टम् ॥ ४ ॥ ते धन्यास्ते जन्मानस्तेषां वर्ष्या च वैदुषी । गत्वा जालन्धराधीशानानृचुर्ये जिनेश्वरान् ॥ ५ ॥ म्लेच्छव्याप्तेषु देशेषु निखिलेषु कलौ युगे । निरत्ययं हि तत्तीर्थं मराविव सरोवरम् ॥ ६ ॥ तस्य तीर्थस्य महात्म्यं कियद्वच्म्यपटिष्ठधीः । तदुपास्य ततः पश्चाद्धन्यं मन्योऽत्र चागमम् ॥ ७ ॥
तदेतदत्यद्भुतं स्वदृष्टमुक्तं वाच्यं न्यक्षेण तद्विदांकुर्व्वन्तुः । ग न्तव्यो नोऽद्यापि महानस्तिपन्थाः । " इत्यभिधाय स प्राचालीत् । तदनु च तया वार्त्तया हृतमनस्का इव चित्रलिखिता इव सञ्जातरणरणका इव आग्रह महिला इव वयं ससभ्या बभूविम । मनसीत्थं विचारितवन्तश्च यदुत म्लेच्छाकुलेऽस्मिन्नपि नीवृत्यभ्येत्य तत्ताहगमिथ्यादृग्दुष्टजनानन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org