SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्यां श्रीमजिनेन्द्रशासनप्रभावकाः श्रावकाः शुचिमनस्काः। निवसन्ति तत्र बहुला बहुलाभा लसितलक्ष्मीकाः ॥ ४ ॥ (युग्मम् ।) तदा च लब्धावसराः स्फुरत्सद्भावभासुराः। तेऽस्मानभ्यर्थयांचक्रुर्विहां स्वपुरं प्रति ॥ ५॥ प्रास्थिष्महि ततस्तस्मात्तदाग्रहवशाद्वयम् । साधुभानुसमीराणां स्थिति३कत्र युज्यते ॥ ६ ॥ क्रमेण द्रोहडोट्टादीन् ग्रामानुद्दामवैभवान् । मध्ये कृत्योत्सवे प्राप्ताः श्रीफरीदपुरं पुरम् ॥ ७ ॥ तत्र च विविधधर्मोपदेशामृतसेकेन भव्यलोकविवेकाङ्कुरानुज्जीवयतां जिनमतं प्रभावयता कांश्चिद्ब्रह्मक्षत्रियब्राह्मणादीन् जिनमतानुगभक्तीन् कांश्चिद्भद्रप्रकृतीस्तैस्तैद्धर्मोपदेशैः कृतार्थयतां सतां सपरिच्छदानां समाधिसमृद्धो बहीयानननेहा व्यतीयाय । अन्यदा च प्राचीमुखमण्डने भानुमति जायमाने जगद्व्यवहारहेतौ प्रत्यूषसमये आसीनायां राजन्यवाणिज्यब्राह्मणादिपरःशतोत्तमजात्यजनपर्षदि धर्मोपदेशक्षणं क्षणादासूच्य निवृत्तेष्वस्मत्सु गायनेषु च कलस्वरताललयमानबन्धुरां गीतिमुद्गायत्सु, अकस्मादतर्कितः कुतोऽपि धूलिधूसरितकू,कुन्तलो वामहस्तविलसत्कमण्डलुः । क्षामकुक्षिरतिवीथ्यतिक्रमात्कोऽपि जीर्णवसनोऽध्वगोऽभ्यगात् ॥ १॥ आगत्य चोचितं विनयं व्यञ्जयन् समुदितमना मनागुन्नमितोत्तमाङ्गः पुरस्तादासांचक्रे । वयमपि सदाकृतिरिति तमाभाषयांचकृम । “भो. स्तीर्थयात्रिक पथिक! कुतः प्रष्टव्योसि ? केषु केषु तीर्थेषु दृष्टपूर्वीभवान् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy