SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रथमा वेणिः । २१ श्रीमच्छ्री पूज्यराजवर्य पादप्रसाद सौघमध्यासीनाः प्यानशुभध्यानं दधानाः, सपरिच्छदा विशदसमाधिनिस्तुष सुखविजयारोग्यसमाधिशुद्धा वेविद्यामहेतमाम् । तथा शुभवद्भिस्तत्र भवद्भिर्भदन्त मह तरैर्यलिलिखानमासीद्- "यद्युष्माभिः केषु केषु स्थानेषु पुरेषु ग्रामेषु वा विहृतं ? क्व वा तीर्थे या त्राविशेषधर्म्म कर्म्म शर्मकार्यर्जितं ? आगन्तुक लोकवार्तया तु भवन्तो न - गरकोट्टाय प्रतिष्ठासवः शोश्रूयचक्राणास्तत्त्वं तु सम्यक्तया न जानीमः, तेन स्वकीयविहारयात्राप्रकारादिविशिष्ठ ज्येष्ठ पुण्यात्मकः समाचारोऽस्मच्छुतिशष्कुली वलयावगाही विधेयः " इति । तत्रार्थे क्षणमेकं दत्तावधाना अवधारयन्तु गच्छेशा:, यथोत्तरार्द्धा भवामः । तथा च ---- इतः पूर्वमपूर्व सुपर्वश्रेणिरमणीये श्रीदपुरुषोत्तमाश्रमे स्वः समे श्रीमम्मणवाहणपुरोत्तमे पुरातनी चतुर्मासीमसीमसुखसम्पत्त्या सूत्रयांचक्रिम | तदनु च सं० सोमाकस्तत्पुत्र - सं० अभयचन्द्रमेलितेन सघेन समं श्रीमरुकोट्टमहातीर्थं भवाम्भोधितीर्थं पृथ्वीभक्तयो वयमवन्दिष्महि । ततश्च क्षेमेण मम्मणपुरे परमं प्रवेशोत्सवमनुभवन्तः ससङ्घा वयं प्राप्ताः । इतश्च - फरीदपुरमित्यस्ति पुरं परमवैभवम् । बहुधान्यधनसम्पन्नं सम्पन्नोज्झति यत्क्षणम् ॥ १ ॥ यदेव देवगुर्वाज्ञासज्जसज्जनसङ्कुलम् | पदं मुदामुदाराणां ताराणामिव पुष्करम् ॥ २ ॥ दीनदर्श दयन्ते ये दयन्तेऽर्थिजने धनम् । दीयते दुरितं तेषां धर्मध्यानानुभावतः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy