SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्यां मजित्वररज्ज्यत्कौ कुमाम्भः शुभस्कौ सुम्भकुसुमकिंशुक शुकचचुचञ्चुरचलकिङ्किल्लिपल्लवहिङ्गुलप्रवाललीलामनुभवद्भिः प्रसृत्वरैः करप्रसरैः प्रसादयितुमिव प्रसाधयति स्पृशति जगत्प्रबाधिप्रबोधप्रथमप्रारम्भमङ्गलकलशायमानमण्डले मार्त्तण्डे कलहंसशावकेषु प्रथमोनिद्रेषूनमुद्रितलोचनेषु तत्कालो - ज्जृम्भमाणकमलाकर केशरैः कल्पवर्त्त कुर्व्वत्सु सद्भक्तिभावोल्लासभाजनजनितजिनसभाजनसभाजनस्वान्तपोतकान् मधुमधुररसेक्षुरसपायस माधुर्यजैत्रश्री वामेयचरित्रगतोपदेशपेशल पृथुलप्रातराशप्रदानेन पुण्यपुष्टिभाजः सम्भा वयन्तः,मध्यंदिने मतिशलिगणि - सम (य) कुञ्जरमुनि - स्थिर संयममुनीनधीतज्येष्ठक्षेत्रसमासादिधर्मप्रकरणान् कर्मग्रन्थं कर्म्मविपाकाख्यमध्यापयन्तस्तद्वयं चाभिनवकाव्य शिक्षायां योजयन्तः, रत्नचन्द्रक्षुल्लकं चाधीयमानस्वाध्यायं शब्दब्रह्मव्याकरणमधिजिगापयिषन्तः, परान् निर्ग्रन्थानपि तत्तल्लक्षणान्वेषिकी निघण्टुस्वाध्यायादिग्रन्थपाठनेन यथासमयं सग्रन्थानादधानाः, वनीपाला इव नवनवागमान् कदाचित्सारयन्तः प्रमादपि शुनोपप्लवाच्च निवारयन्तः कदाचिदुच्चावचाभिग्रहोपचितपवित्रत्रतजात्यविटपिनो भव्यजनस्वान्तमृदुलतम क्षितितलप्ररूढान् सदुपदेशश्वर योगेन प्रौढिं प्रापयन्तः, कदाचिद्दन्तिषन्मतिव्रततिकाः शास्त्रतात्पर्य पर्यालोचन - प्रकारमण्डपोन्मुखीः समारचयन्तः, कदाचिदवनीपाला इव विविधविषयनयस्वरूपसात्म्यं परिभावयन्तः, कर्हिचिच्चापणिका इव प्रमाणप्रमेयव्यवहारचातुरी परीक्षमाणाः, कदापि महासुरसेनाञ्चितं नव्यं काव्यं देवा इव निबध्नन्तः, कदाचिह्नधवद्देवगुरुसान्निध्या तुष्टिपुष्टिभाजः . सांयमानाचारणीयान् योगान् समग्रानपि यथाकालं यथार्हं प्रयुञ्जानाः, आवश्यकेषु तेषु तेषु धर्म्येसु कर्म्मसु कृतावधानाः कदाचित्संयममयात्मारामे मनोमयूरं ररंमयन्तोऽनूपदेशा इव सर्व्वतः कुशलताप्रधानाः श्री परमेष्ठिवर्द्धमानमहामन्त्रविद्याबीजाक्षरस्मरणत्रिषवणेन सर्व्वाङ्गीणं पापतापं न्यत्कुर्वाणाः २०. Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy