________________
प्रथमा वेणिः। उल्लसदविरलोज्ज्वलानवद्यगद्यमालामाद्यत्कल्लोलायाः स्फुरद्धेतुयुक्तिजातसम्पातवक्रनक्रचक्रदुरधिगमायाः पयोधिवेलाया इव मध्यं कथमप्यवगाह्य विबुधबुद्धिबेढाकष्टेन कथञ्चित्पारीणभावमनुबोभूयते । यस्यां च सरस्यामिव मधुरघनरसप्रशस्यायां जगज्जन्तु तापव्यापनिर्वापपरायां चातुरीलहरीभिरुल्लसन्त्यां भारती भगवती हंसीव हसन्तीवोल्लसन्तीव वसन्तीव स्नान्तीव मज्जन्तीवोन्मज्जन्तीव किलन्तीव क्रीडन्तीव साक्षादिव नित्यं लक्ष्यते । किं बहुना?
विनाञ्जनं लोचनयोर्विकाशनं ह्यनभ्रवृष्टिश्च वपुष्यतर्किता ।
विनापि राज्यं सुखसम्पदासी त्किमप्यपूर्वा गतिरेतदीया ॥ १ ॥ अपि च
नयनसुखदां पायं पायं मुहुर्नयनाञ्चलैः
सुचिरमपि यां ग्राहं ग्राहं मुदाकरकुड्मलैः । हृदयनिहितां कारं कारं स्फुरत्पुलकाङ्गका
वचनविषयातीतं तोषं परं स्म लभामहे ॥ २ ॥ सा तादृक्षा क्षपितजगत्तापा स्वसुखावस्थानभव्यजनतत्तदगण्यपुण्योपकारविधाननवनवस्थानविहरणश्रीमज्जैनमतप्रोत्सर्पणतत्तदन्तिषदध्यापननानाधर्मोत्सवविधापनवरव्याख्यानविधानादिरूपशुभरूपस्वरूपनिरूपणदीपिका यथावसरं तदनागमहिमागममुकुलितास्मन्मानसानन्दमाकन्दवृन्दोल्लासिनी वसन्त रिव सदाऽहाय प्रसह्य प्रसाद्या । तथा वयमत्र विघटमानकमलकोशमध्यनिर्गच्छदतुच्छोत्साहवशमाघन्मधुकरझङ्कारकृतप्राभातिकम. गलध्वनौ सङ्घटमानचटुलचक्रमिथुनपृथुप्रमोदौजस्विमञ्जुकूजनकोलाहलि. नि सञ्जायमाने विभातसमये, अपराशासंसर्गरङ्गद्रागात्मपत्यवलोकनोत्पन्नमन्युवैमुख्यां प्राचिदिग्विलासिनी कोमलतरैः स्फुरत्कश्मीरजरजोराजिमञ्जि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org