SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्यां स्पृहणीयतमोद्देशः प्रसमरामेयश्रीनिवेशसम्पन्नशर्मादेशः विमल तरतुरङ्गरणत्तरङ्गशृङ्गतरत्तरुणलक्षणचटुलचक्रवाकचलद्वकोटकारण्डवमण्डलीमण्डितोपान्तया पुण्यागण्यपानीयया पश्चिमपयोधिमभिसरन्त्या स्थूलोल्लोलमालाविलासच्छलादरात्सङ्गमोत्कण्ठया कोमलभुजलताः स्वपतिं प्रति विस्तारयन्त्येव नदीमातृकजनोज्जीवनजीवनया लालसहंसया विपाशया, चन्द्रभागया, ऐरावत्या, सिन्धुमहानद्या च सर्वतोऽधिभूमिप्राप्तप्रसरयोपेक्षितजलदप्रवेशः सिन्धुनामा देशः । अपि चनानाकेलिकलाकुतूहललसत्कल्लोलरत्नाकरो देशः कस्य स सम्भवेन्न रतये प्रोन्निद्रभद्रावनिः । क्रीडाक्रीडविहारिणो रचितविब्बोकानशोकानलं लोकान्यत्र निरीक्ष्य वेत्ति जनता स्वर्गोऽयमेवास्ति किं ॥१॥ किञ्च यो धनैः सङ्कलोऽप्युच्चैः सदाऽऽयोधनवर्जितः । वनानि यत्र पान्थानामवनानिभवन्त्यहो ! ॥ २ ॥ सदम्भा यत्र तटिनी सकुरङ्गा वनावनिः। सक्षया च पुरी ख्याता जनता न तु यत्र हि । ॥ ३ ॥ धनानि यत्र लोकानां विपुलानि मनांस्यपि । परार्थकरणेष्वेव रमन्ते सर्वदाऽपि हि ॥ ४ ॥ तस्य महामण्डलस्य मुखमण्डनं श्रीमन्मलिकवाहनाभिधानं श्रीनिधानं पुटभेदनं वरिवर्ती । तथा च रङ्गगौरीगणश्लाघ्यं श्रीदपुण्यजनाश्रयम् । महेश्वरकृतास्थानं यत्कैलासायते पुरम् ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy