SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रथमा वेणिः। ते नवीनपीनशारदेन्दुसुन्दरकुन्दकुमुदकेतकोदरसोदरदरद्विचिकलकुलकुवलयदलधवलसकलजगज्जङ्घालनिस्तुलस्थूलयशःपटलधवलीक्रियमाणत्रिभुवनभवनभित्तिभागा गगनप्रदेशा इव सन्मङ्गला अपि बुधसेविता अपि चन्द्रोदयभासिवसतौ शोभमाना अपि नभोगसम्पन्ना अपि धनाश्रया अपि न च ये ग्रहान्विताः, पुरता इव नाकविख्याताः, वैनतेया इव नागमाधिक्षेपकराः, पद्माकरा इव नालसहिताः, शब्दशास्त्रप्रदेशा इव नामसम्पन्नाः, सुकविकृतकाव्यप्रकारा इव नानायतिश्रितपादाः, आर्यानुगताश्च; सत्तमाः शान्तचेतसाम्, विशिष्टाः प्रतिष्ठावताम् , अग्रगण्या गणवताम् , आश्रयाः स्थेयःसंयमश्रियाम्, आद्या विद्यावताम्, वर्या आर्याणाम्, सारसूरीन्द्रपट्टकमलाकमलिनीकमलिनीवल्लभा जगदुर्लभशुभप्रभावप्रकटश्रीसू. रिमन्त्रप्यानध्यानसन्धानविधुतसबाह्याभ्यन्तराधिव्याधिप्रसराः सर्वाङ्गसुन्दराः सुगृहीतनामधेयाः परमध्येयाः श्री जिनभद्रसूरिसुगुरुसार्वभौमाः, पं० पुण्यमूर्तिगणि-पं० मतिविशालगणि-वा० लब्धिविशालगणिवा० रत्नमूर्तिगणि-पं० मतिराजगाण-वा० मुनिराजगणिपं० सिद्धान्तरुचिगणि-पं० सहजशीलमुनि-पं० पद्ममेरुमुनि-पं० सुमतिसेनगणि-विवेकतिलकमुनि-क्रियातिलकमुनि-भानुप्रभुमुनि-प्रमुखसुमुखकल्मषपराङ्मुखसुखसन्तोषविशेषप्रेख़त्प्रेक्षोल्लेखकृतपातकनिष्पेषदूरापसारितद्वेषविशुद्धवेषविधुतविगाननिस्समानन्यत्कृतमानसम्यग्ज्ञानविनीतदोषवितानदूरञ्जनीयजनरञ्जनसार्थजन्यसर्वाङ्गीणगुणोड्डामरक्रियाकाण्डशौण्डीरधीरिमोदामप्रकामसंयमारामविहारदक्षमुमुक्षुसितपक्षशिरोविसरशेखरीक्रियमाणक्रमणराजीवरजोविस्तारा वर्णनातीतगुणप्राग्भारा विजयन्तेतमाम् । अन्यच्च, अस्ति विविधवसुधावलयभालभूषणललामोपमानो नानाग्रामाकरपुरपत्तनसन्निवेशसरित्सरोवरघनविपिनाद्यास्थानरामयिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy