SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रथमा वेणिः । तपोभिर्दुस्तपैर्यत्तु दुरापं योगिनामपि । तत्सिद्धात्ममयं ब्रह्म येषां वाक्यादपीक्ष्यते ॥ २५ ॥ तार्किकाणां मते ख्याताः ख्यातयः सदसन्मुखाः । सत्ख्यातिरेव येषां तु सिद्धा प्रमाणिनामपि ॥ २६ ॥ यद्वाणीवारिदोऽपूर्वी राजते विश्ववल्लभः । हरत्थेव जगत्तापं शंवरं तु न मुञ्चति ॥ २७ ॥ सत्यातपत्रमिव पादयुगं यदीयं सच्छायमेत्य गततापभरा महीयः । सातत्य तोषमवगत्य भवन्ति सन्तः सातान्विता भुवि नृपा इव संशुभन्तु ॥ १ ॥ ( छत्रबन्धः । ) स्फीतसातं वितन्वन्तं शान्तस्वान्तं मतश्रुतम् । गीतवातततं कान्तं सन्ततं तं नुत द्रुतं ॥ १ ॥ ( गौमूत्रिका चित्रं षोडशदलपद्मं च । ) वरारावरसासार ! नवराजजरावन ! । रसानुत तनु सारं दयया ततयायद ! ॥ १ ॥ ( अर्द्धभ्रमः । ) महनीया मतिमतां महामहिमसंगताः । मतं नतानां ददतां महात्मानः समाहिताः ॥ १ ॥ ( बीजपूरबन्धः । ) Jain Education International मरालीवातिविमला मनोवृत्तिर्यदीयका । मनुते बहुनालीकं कस्मान्न मानसं गता ॥ १ ॥ ( आसनबन्धः । ) For Private & Personal Use Only १३ www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy