SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्यां व्याख्याक्षणे मुखे येषां नूनं नर्ति भारती । तन्नूपुरध्वनिरिव लक्ष्यते देशनाक्रमः ॥ १५ ॥ दोलीकृत्य यदीयं तु जिह्वाञ्चलं चलाचलम् । तथाविधवचोव्याजाद् वाग्देवी खलु खेलति ॥ १६ ॥ सुधा बुधा मुधा नूनमनूनापि गुणैः परम् । यद्वचःपानसंतृप्तश्रोतुरेष वचःक्रमः ॥ १७ ॥ मन्ये सरस्वती तावद्येषां जिह्वाधिदेवता । तत्रानुकूलवृत्तीनां यस्मात्सर्वार्थसिद्धयः ॥ १८ ॥ येषां सिद्धरसौपम्यं दधाति वचनक्रमः । सुबुद्धिस्वर्णतां याति यत्प्रसङ्गात्कुबुद्धययः ॥ १८ ॥ मुखं शक्तिपुटं येषां वचनानि तु मौक्तिकाः । तल्लाभे प्रयतन्ते तु पुण्याब्या एव केचन ॥ १९ ॥ यद्वाग्वल्ली सप्तभङ्गी रङ्गन्मण्डपगोत्सृता । सुभाषितफलैः कस्य करोत्युत्कण्ठुलं न हृत् ? ॥ २१ ॥ (वाणीवर्णनम् ।) महानुभावा निहताङ्गितापस्तोमा निरुद्धाधिविधा निकामम् । पुण्यप्रकाशा नियतेन्द्रियाणां जगन्मुदे गीश्च यशांसि येषाम् ॥२२॥ (महाद्भुतम् ।) दौगैत्यभेदिनी रङ्गद्विभावभासिनी रयात् । येषां वाणी च पादाब्जे शिवद्धि तनुतां सताम् ॥ २३ ॥ ( अद्भुतम् ।) ऋते येन नो भूपतिर्नापि रङ्कः सजीवोऽप्यजीवोऽस्त्यहो ! जीवलोके । तदेवानुभूतं यदीयं जनानां मुदे कारणं तत्र ही सत्प्रसङ्गः ॥ २४ ॥ (प्रहेलिका।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy