SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्यां स्वर्गभुक्तावशिष्टस्य धर्मस्यांशा इवाङ्गिनः ॥ ७ ॥ सलज्जाः सदयाः सौम्याः सरूपाः समहोदयाः । लोका यत्र निरीक्ष्यन्ते सुषमाकालजा इव ॥ ८ ॥ तत्र पवित्रसुत्रामपुरापारस्मयचयव्ययकरे पुरेजडपरिचयोद्विमा नूनं विहाय कुशेशयं कमलनिलया देवी येषामवाप पदद्वयम् । स्फुरति नितरां तस्मादेवेन्दिरोल्लसदाशयाः __ तदतिवरिवस्यासक्तानां गृहेषु तनूभृताम् ॥ १॥ सत्यं सन्ति सितोपलाशशिकलासद्धारहूरादयो मिष्टाः किन्तु यदीयवाग्मधुरिमा कोऽप्यद्भुतो वर्तते । सक्लप्तामृतभोजना इव जना यां कूणिताक्षाः सकृत् पीत्वा सार्वदिकं लभन्ति सततं सन्तोषपोषं परम् ॥ २ ॥ शाणोत्तीर्णमणीव कान्तिकलिता दातेव चौदार्यभाक् रम्भावन्मृदुला शरद्विमलिताऽऽशैव प्रसन्नाऽधिकम् । सन्माधुर्यगुणा सितेव सुधया सिक्ता तु सूक्तावली येषामाननसम्भवा श्रुतिगता काँस्कान्न संमोदयेत् ॥ ३ ॥ जगद्गानन्दरसैकसस्त्रं येषां मुखं निश्चितमिन्दुबिम्बम् । निपीय तद्वागमृतं किमन्यथा सञ्चन्द्रकान्ता बभुरार्द्रितान्तराः ॥४॥ अग्रे सत्यमरूरुपन् सपदि ये स्याद्वादवादद्रुमं यस्याध्यक्षपरोक्षमानयुगलं मूलं प्रकाण्डं कृपा । शाखाः सप्तनया जिनप्रवचनं पत्रप्रकारं विदुः तत्त्वज्ञानमुशन्ति पुष्पपटलं मोक्षं तु सम्यक्फलम् ॥५॥ यैः कुन्देन्दुतुषारहारधवलैब्रह्माण्डमाभूष्यते . यैर्वक्तुं हृदि कल्पितैरिह जनो मूकोऽपि वाङ्मीयते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy