SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्यां यो निर्द्धनोऽपि धनधान्यसमृद्धिहेतु नामस्मृतिर्नमत तं गुरुमिन्द्रभूतिम् ॥ ३३ ॥ नमः क्षमाधरोद्घाय श्रीसुधर्महिमाद्रये । जज्ञे गौरीदृशी यस्मान् महाव्रतिमनःप्रिया ॥ ३४ ॥ श्रीमद्वीरजिनेशवंशविशदप्रासादशृङ्गाङ्गणे रङ्गच्चारुसिताम्बरप्रविलसत्कीर्तिध्वजाबन्धुरे । सद्वृत्तः कलधौतकुम्भतुलनामुच्चैर्दधे यश्चिरं प्रज्ञां पल्लवयत्वसौ गणधरः श्रीमान् सुधा मम ॥ ३५ ।। जयति जगन्ति पुनाना वाङ्मालाभिः सरस्वती देवी। करकृतमणिमिव कवयो विश्वं पश्यन्ति यदनुभवात् ॥ ३६॥ सदुक्तिमुक्ताफलताम्रपण्यै नमोनमः श्रीगुरुराजवाण्यै । जडम्वभावोऽपि हि यत्प्रसङ्गात् सिन्धुः स रत्नाकरतामवाप ॥३७॥ यदीयवागञ्जनस्य मनोदृशि निवेशनात् । विन्दन्ति गूढमप्यर्थं जनास्तं गुरुमर्थये ॥ ३८ ॥ तदेवं सम्यगाराध्याऽऽराध्यपादान्महादरात् । लेखोऽयं लिख्यते किञ्चिद्गद्यपद्यमयो मया ॥ ३९ ॥ क्व मे तुच्छतमा बुद्धिर्महान् कायमुपक्रमः ? । तदहं मातुमिच्छामि कुम्भैरम्भोऽम्बुधेरपि ॥ ४० ॥ गुरुप्रसादतो यद्वा ममाप्यत्रास्ति योग्यता । भेकोऽपि हि भुजङ्गास्यं चुम्बेन्मान्त्रिकयोगतः ॥ ४१ ।। विश्वाम्ब ! मे हृदि सरस्वति ! सन्निधेहि स्या सम्प्रति फलेग्रहिरुद्यमोऽयम् । - * अस्मिन् पादेऽक्षरद्वयं त्रुटितमस्ति । तच्चादौ 'स्पायेन' इत्येवं सम्भवेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy