________________
अहम् । श्रीमद्-विजयानन्दसूरिपादपद्मभ्यो नमः ।
विज्ञप्तित्रिवेणिः।
नमः सर्वविदे। जयति लसदनन्तज्ञाननिर्भाससान्द्रो
निरुपममहिमत्वादार्हतः कोऽपि भावः । त्रिभुवनजनभाग्यागोचरो यत्र नित्यं
विलसति कृतवासा निर्भरं सा शिवश्रीः ।। १ ।। जगन्नित्यं किञ्चित्तदितरदनित्यं च सदियं
यदज्ञानाभान्तिः स्फुरति मृगतृष्णेव भुवने । क्षणेन क्षीयन्ते दुरितनिवहा यत्परिचया__ तदेवाङ्गीकुम्नॊ निरभिविधि जैनेश्वरमहः ॥ २ ॥ दौर्गत्यदोषमुच्छेत्तुं विबुधा यामुपासते ।
कल्पवल्लीव सा जैनी चतुर्विंशतिरिष्टदा ॥ ३ ॥ विश्वाशाः परिपूर्णतामुपगता वाञ्छार्थलाभांशुभि
नष्टा तामसमण्डलीव विलसद्वैरादिवार्ताऽपि हि । मार्गामार्गविचारचारिमधरा जाता समस्ता मही
यस्यैवाभ्युदये, स शान्तिसविता सुप्रातराविष्क्रियात् ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org