________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २८-३१] पढमो तइओ य सरो, सत्तम णवमो य संकडा हस्सा । वियडा अंतरदी[प० २०, पा० २ हा वि चउत्थो पंचमो चेव ॥२८॥
अकार-इकार-एकार-ओकारः, चत्वारोऽमी संकटसंज्ञाश्च ह्रस्वाश्च । प्रभाक्षराणां मध्ये यदा संकटखरबाहुल्यं भवति तदा प्रष्टा यस्यार्थे मोक्षं पृच्छति आत्मनो(नः) परस्य वा बद्धस्य तदा • मोक्षोन] भव[सी] त्यादेस्य (श्यम् ।) नष्टमपि न लभते । दुर्गभङ्गादिकं न प्राप्नोतीत्यादेस्य (श्यम्)। एतद् व्यतिरिक्तमन्यद् यदा[प० २१, पा०१] पृच्छति तदे(दै)षां संकटसंज्ञानां स्वराणां बाहुल्ये सर्वमेव लभ्यत इत्यादेश्यम् । विकटा अन्तरदीर्घाः । के इत्यत्रोच्यते - द्वितीय आकारः, चतुर्थ ईकारः, पंचम उकारः, त्रयो विकटसंज्ञा अन्तरदीर्घाश्च । प्रभाक्षराणां मध्ये यदा विकटसंज्ञानां स्वराणां बाहुल्यं भवति तदा प्रष्टा यस्य कस्यचित् परस्यात्मनो वा बद्धस्य मोक्षं [प० २१, पा० २] पृच्छति ॥ तदा मोक्षो भवतीत्यादेश्यम् । नष्टमपि लभते। दुर्गादिभंगश्च सिध्यति, इत्यादेश्यम् । एतद् व्यतिरिक्तं यदन्यनु(तु) लाभादिकं पृच्छति तन्न भवतीत्यादेश्यम् ॥ २८ ॥
संकडा(ड)विअडा सेसा, सहा[व]दीहा य तिण्णि णि[य] मेणं । छट्ठमा य वेण्णि विसमस्सरो चेय णायबो ॥ २९ ॥
संकट-विकटाः शेषाः स्वभावदीर्घाश्च । षष्ठ ऊकारः, ऐकारोऽष्टमः, औकारो दशमः, " इत्येते त्रयः । शेषग्रहणाद् बिन्दु-विसर्जनीयौ । प्रश्नाक्षराणां मध्ये संकट-विकटसंज्ञानां बाहुल्यं
भवति तदा प्रष्टा यदात्मनो यदि वा परस्यार्थे बद्धस्य मोक्षं [प० २२, पा.१] पृच्छति तदा भेदेन मुच्यत इति वक्तव्यम् । नष्टमपि. किंचिद्रव्यं भेदेनैव लभ्यते । दुर्गभंगोऽपि भेदेनैव भवतीत्यादेश्यम् । यदन्यदेतद् व्यतिरिक्तं शुभमशुभं वा पृच्छति तन्मध्यमं भवतीत्यादेश्यम् ।। २९ ।।
पढमा(म त)इया य वियडा, बीय चउत्था य संकडा वग्गा । सेसा क(सं)कड-वियडी(डा), अड ई दंडस्स भेदतियं ॥ ३० ॥
प्रथमाः - 'क च ट त प य सा(शा), [तृतीयाः] गज ड द ब ल सा' एतौ विकटसंज्ञौ । प्रागवत् फलम् । द्वितीय(या:)- 'ख छ ठ थ फरषाः'; चतुर्थः )-'घ झ ढंध भ व हा' एते संकटसंज्ञाः । पूर्ववत् फलम् । शेषग्रहणात् ] 'बण न मा' एते उभयस्वभावाः। दण्डं विप्रनष्टं द्रव्यमुच्यते ॥ ३०॥ [५० २२, पा०२]
॥ एवं संकट-विकटप्रकरणं समाप्तम् ॥
वग्गे गणणादेसे, स(द)वेसु य उत्तराहरो होइ। वग्ग(ग्गु)त्तरा य नियमा, अच त य वग्गंत(ग्गुत्त)रा चउरो ॥ ३१ ॥
उत्तराधरं चतुर्विधं - वर्गोत्तरं गणनोत्तरं आदेशोत्तरं द्रव्योत्तरं चेति । अस्य च संबन्धः आह-२२२२'वेवेक उत्तर अहरा य तेसिं जाणे वग्गक्खरसराणं' । तदर्थं प्राग वर्गोत्तरमुच्यते-[प० २३, पा० १] 'अच त य एते चत्वारः वर्गाः। उत्तरा प्रधाना इत्यर्थः। ततश्चापे(न्ये) 'कट पश' संज्ञाश्चत्वारः अधरा अप्रधानाश्चेति ॥ ३१ ॥
(24)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org